Enter your Email Address to subscribe to our newsletters

दमिश्कम्, 10 मईमासः (हि.स.)।
सीरियादेशस्य राष्ट्रपतिः अहमद-अल्-शारा शनिवासरे राजधानी-दमिश्क-स्थिते “पीपल्स्-पैलेस्” इति स्थले लेबनानदेशस्य प्रधानमन्त्री नवाफ्-सलामेन सह मेलनंकृतवान्।
अस्मिन् अवसरे उभयोः देशयोः मन्त्रिस्तरीय-प्रतिनिधिमण्डलानि अपि उपस्थितानि आसन्। अस्याः सभायाः मुख्योद्देश्यः द्विपक्षीय-सम्बन्धान् सुदृढान् कर्तुं तथा समानहितपूर्त्यर्थं आर्थिक-व्यापारिक-सहकार्यं प्रोत्साहयितुम् आसीत्। एषा सूचना सीरियादेशस्य समाचार-संस्था “सना” इत्यस्य प्रतिवेदने प्रदत्ता।
अस्य प्रतिवेदनस्य अनुसारं उभौ नेतारौ क्षेत्रीय-स्थैर्यस्य सुदृढीकरणार्थं तथा विविध-चुनौत्याः सामना कर्तुं सुरक्षासमन्वयस्य विषये अपि चर्चां कृतवन्तौ। उभयोः पक्षयोः नवीनतम-क्षेत्रीय-अन्ताराष्ट्रिय-घटनाक्रमानां विषये विचार-विनिमयः अपि अभवत्। “अल्-जज़ीरा” इत्यस्य प्रतिवेदनस्य अनुसारं लेबनानदेशस्य प्रधानमन्त्री नवाफ्-सलामः एकवर्षपूर्वं सीरियादेशस्य राष्ट्रपतिना अहमद-अल्-शारा सह मिलितवान् आसीत्। ततः आरभ्य लेबनान-सीरियादेशयोः बहवः परिवर्तनाः अभवन्।
“अल्-जज़ीरा” इत्यस्य अनुसारं उभयोः नेतृयोः मध्ये लेबनानदेशे इजराइलदेशस्य वर्धमान-आक्रामकतायाः विषये अपि चर्चा अभवत्। विशेषतया सीरिया पूर्वं ईरानदेशस्य तस्य सहयोगिनः हिजबुल्लाह-सङ्गठनस्य च मध्ये स्थलमार्गस्य भागः आसीत्। असद-शासनस्य पतनानन्तरं अस्मिन् बहु न्यूनता जाता। गतकेषु मासेषु सीरियादेशेन अनेके सुरङ्गाः विनष्टाः। एताः सुरङ्गाः लेबनानदेशे अस्त्र-तस्करी-प्रयत्नेषु उपयुज्यमानाः आसन्। एतदेव न, गतसप्ताहे हिजबुल्लाह-सङ्गठनस्य अनेकाः सदस्याः अपि गृहीताः। कथ्यते यत् एते जनाः उत्तर-इजराइलदेशे रॉकेट्-प्रक्षेपणस्य प्रयासं कुर्वन्तः आसन्।
सीरिया-लेबनानदेशयोः सरकारे इदानीं हिजबुल्लाह-सङ्गठनस्य नियन्त्रणार्थं संयुक्तरूपेण प्रयत्नशीलं दृश्येते। अधुना सीरियादेशस्य द्विसहस्राधिकाः बन्दिनः लेबनानदेशे निरुद्धाः सन्ति। लेबनानदेशे वर्तमानानां सीरियाई-शरणार्थिनां विषयः अपि महत्त्वपूर्णः अस्ति। लेबनानदेशे अद्यापि दश-लक्षाधिकाः सीरियाई-नागरिकाः विस्थापितरूपेण निवसन्ति।
---------------
हिन्दुस्थान समाचार