सामाजिके सुरक्षाक्षेत्रे ऐतिहासिकप्रयत्नः अस्ति प्रधानमंत्रिजन-सुरक्षायोजनाः - मुख्यमंत्री डॉ. यादवः
- प्रधानमंत्री सुरक्षा बीमा योजना, प्रधानमंत्री जीवन ज्योति बीमा योजना अथ अटल पेंशन योजना च पूर्णीकृतवत्यो जन-सुरक्षायाः 11 वर्षाणि भोपालम्, 10 मईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेत
सीएम मोहन यादव


- प्रधानमंत्री सुरक्षा बीमा योजना, प्रधानमंत्री जीवन ज्योति बीमा योजना अथ अटल पेंशन योजना च पूर्णीकृतवत्यो जन-सुरक्षायाः 11 वर्षाणि

भोपालम्, 10 मईमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेतृत्वे वर्षे २०१५ मध्ये प्रारब्धाः प्रधानमन्त्रीसुरक्षाबीमायोजना (पीएमएसबीवाई), प्रधानमन्त्रीजीवनज्योतिबीमायोजना (पीएमजेजेबीवाई) तथा अटलपेंशनयोजना (एपीवाई) सामाजिकसुरक्षाक्षेत्रे ऐतिहासिकाः जनहितकारिण्यः पहलाः सिद्धाः। एताभिः योजनाभिः निर्धनानां, वञ्चितानां, श्रमिकाणां, कृषकाणां तथा न्यूनआयवर्गस्य कोटिशः परिवाराणां कृते आर्थिकसुरक्षायाः दृढाधारः प्रदत्तः।

मुख्यमन्त्री डॉ. यादवः रविवासरे प्रदत्ते वक्तव्ये अवदत् यत् जनसुरक्षायाः एताः त्रयः योजनाः सफलतया सामाजिकसुरक्षाप्रदाने ११ वर्षाणि पूर्णानि कृतवन्त्यः। एतासां योजनानां उद्देश्यं समाजस्य अन्तिमव्यक्तेः पर्यन्तं न्यूनव्यये बीमापेंशनसुविधानां प्रेषणम् अस्ति। मध्यप्रदेशे अपि राज्यशासनेन बैंकिंगसंस्थाभिः, डाकघरेभ्यः तथा सम्बन्धितविभागैः सह समन्वयं कृत्वा योजनानां लाभः अधिकाधिकपात्रहितग्राहिभ्यः प्राप्यते।

आमजनानां विपत्तौ संबलं जाता प्रधानमन्त्रीजीवनज्योतिबीमायोजना। मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रीजीवनज्योतिबीमायोजनया नागरिकेभ्यः अत्यल्पप्रीमियमेन जीवनबीमासुरक्षा प्रदीयते। योजनायाः अन्तर्गतं कस्मिंश्चित् कारणेन मृत्यौ जातायां २ लक्षरूप्यकपर्यन्तं जीवनबीमाकवचं प्रदीयते। अस्यां योजनायां १८ तः ५० वर्षपर्यन्तं वयस्काः बैंकखाताधारकाः सम्मिलिताः भवितुं शक्नुवन्ति। योजनायाः वार्षिकप्रीमियम् केवलं ४३६ रूप्यकाणि अस्ति, यत् ऑटो-डेबिट् माध्यमेन खाताभ्यः संगृह्यते।

प्रधानमन्त्रीजीवनज्योतिबीमायोजनायां एप्रिल् २०२६ पर्यन्तं देशव्यापिनि २७.४३ कोट्यधिकानि नामाङ्कनानि सम्पन्नानि तथा १० लक्ष ७५ सहस्राधिकदावानां कृते २१ सहस्र ५१२ कोटिरूप्यकाधिकराशेः भुगतानं कृतम्। योजनायाः अन्तर्गतं १२.७२ कोटिमहिलानां तथा ८.०९ कोटि प्रधानमन्त्रीजनधनखाताधारकाणां नामाङ्कनं सम्पन्नम्।

प्रधानमन्त्रीसुरक्षाबीमायोजना दुर्घटनासु निर्धनपरिवाराणां संबलं जाता। तेन उक्तं यत् प्रधानमन्त्रीसुरक्षाबीमायोजना दुर्घटनास्थितौ निर्धनसामान्यपरिवाराणां कृते महान् आर्थिकसहायकः रूपेण उदिता। अस्यां योजनायां दुर्घटनया मृत्यौ अथवा स्थायीदिव्याङ्गतायां २ लक्षरूप्यकपर्यन्तं तथा आंशिकदिव्याङ्गतायां १ लक्षरूप्यकपर्यन्तं सहायता प्रदीयते। योजनायां १८ तः ७० वर्षपर्यन्तं वयस्काः बैंकखाताधारकाः सम्मिलिताः भवितुं शक्नुवन्ति तथा अस्य वार्षिकप्रीमियम् केवलं २० रूप्यकाणि अस्ति।

प्रधानमन्त्रीसुरक्षाबीमायोजनायाः अन्तर्गतं एप्रिल् २०२६ पर्यन्तं ५८.०९ कोट्यधिकानि नामाङ्कनानि कृतानि तथा १ लक्ष ८४ सहस्राधिकदावानां कृते ३ सहस्र ६६७ कोटिरूप्यकाधिकराशिः वितरिता। योजनायाः अन्तर्गतं २७.४५ कोटिमहिलाभिः तथा १९.३० कोटि प्रधानमन्त्रीजनधनखाताधारकैः नामाङ्कनं कृतम्।

अटलपेंशनयोजना असंगठितक्षेत्रस्य श्रमिकाणां निर्धनानां च आर्थिकसुरक्षा जाता। मुख्यमन्त्री अवदत् यत् अटलपेंशनयोजना असंगठितक्षेत्रस्य श्रमिकाणां, निर्धनानां तथा न्यूनआयवर्गीयजनानां कृते वृद्धावस्थायां आर्थिकसुरक्षायाः दृढमाध्यमं भवति। योजनायाः अन्तर्गतं १८ तः ४० वर्षपर्यन्तं वयस्काः ये बैंकखाताधारकाः आयकरदातारः न सन्ति ते सम्मिलिताः भवितुं शक्नुवन्ति। योजनायां कृतस्य अंशदानस्य आधारेण ६० वर्षोत्तरकाले १ सहस्ररूप्यकात् ५ सहस्ररूप्यकपर्यन्तम् अनुबंधकृतमासिकपेंशनं प्रदीयते।

अटलपेंशनयोजनायाः अन्तर्गतं ग्राहकस्य मृत्योः अनन्तरं तस्य जीवनसाथिने पेंशनलाभः प्रदीयते तथा ततः पश्चात् सञ्चितराशिः नामाङ्कितव्यक्तये प्रदीयते। योजनायां मासिक, त्रैमासिक तथा अर्धवार्षिकाधारेण अंशदानसुविधा उपलब्धा अस्ति।

अटलपेंशनयोजनायां एप्रिल् २०२६ पर्यन्तं ९.०४ कोट्यधिकाः जनाः नामाङ्कनं कृतवन्तः तथा योजनायां महिलानां सहभागिता प्रायः ४९ प्रतिशतं वर्तते। डिजिटलप्लेटफॉर्म् तथा ऑनलाइनजनसुरक्षापटलस्य माध्यमेन नामाङ्कनदावाप्रक्रिया सरला पारदर्शिनी च कृता। अनेन ग्रामीणदूरस्थप्रदेशानां नागरिकाः अपि योजनानां लाभं सुलभतया प्राप्नुवन्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रधानमन्त्रिणो मोदिनो नेतृत्वे निर्धनकल्याणस्य सामाजिकसुरक्षायाः च क्षेत्रे निरन्तरं प्रभावीकार्याणि क्रियमाणानि सन्ति। जनसुरक्षायोजनाः आत्मनिर्भरस्य, सुरक्षितस्य तथा समावेशीभारतस्य निर्माणस्य दिशि महत्त्वपूर्णानि पदानि सन्ति। मध्यप्रदेशशासनम् अपि एतासां योजनानां लाभं अन्तिमव्यक्तेः पर्यन्तं प्रापयितुं निरन्तरं कार्यं करोति।

---------------

हिन्दुस्थान समाचार