Enter your Email Address to subscribe to our newsletters

भोपालम्, 10 मईमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवेन गुना-जिलायै विकासस्य महती सौगातः
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य रविवासरे गुना-जिलायै विकासस्य महतीं सौगातं दास्यति। मुख्यमन्त्री अत्र औद्योगिकविकासस्य, अधोसंरचनात्मक-सुदृढीकरणस्य तथा रोजगारसृजनस्य नवीनगत्यर्थं ११८९ कोटि-रूप्यक-व्ययेन विविध-विकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति।
जनसम्पर्काधिकारी शुभम शर्मा अवदत् यत् मुख्यमन्त्री डॉ. यादवः १०५९ कोटि-रूप्यक-व्ययेन स्थाप्यमानायाः अम्बुजा-सीमेण्ट-कारखानायाः शिलान्यासं करिष्यति। सहैव प्रायः १३० कोटि-रूप्यक-व्ययेन १४४ विविध-विकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। एतेषां विकासकार्याणां माध्यमेन जिलायां आधारभूत-सुविधानां विस्तारः भविष्यति तथा सामान्यजनाः उत्तम-सेवानां लाभं प्राप्स्यन्ति।
जिलायां जीविकावसराणां सृजनम्
जनसम्पर्काधिकरिणः अनुसारं अम्बुजा कांक्रीट नार्थ प्रा.लि. (अडानी-समूहः) द्वारा मावन-क्षेत्रे ३२ हेक्टेयर-भूमौ स्थाप्यमाना एषा सीमेण्ट-परियोजना जिलायाः औद्योगिकविकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। परियोजनायाः उत्पादनक्षमता प्रतिवर्षं २×२ मिलियन-टन परिमिता भविष्यति। एषा इकाई गुना-नगरात् प्रायः ५ किलोमीटर-दूरे स्थाप्यते।
सीमेण्ट-परियोजनायाः प्रारम्भेण स्थानीयस्तरे व्यापक-रोजगारावसराः सृज्यन्ते। प्रायः ५०० जनाः प्रत्यक्षरूपेण तथा १००० जनाः अप्रत्यक्षरूपेण रोजगारं प्राप्स्यन्ति। सहैव शासनाय प्रतिवर्षं प्रायः १६० कोटि-रूप्यक-परिमितस्य जीएसटी-राजस्वस्य प्राप्तेः सम्भावना अस्ति।
क्षेत्रीयविकासस्य संवर्धनम्
प्रस्तावितया परियोजनया न केवलम् औद्योगिक-निवेशस्य प्रोत्साहनं भविष्यति, अपितु परिवहनस्य, व्यापारस्य, सेवाक्षेत्रस्य तथा अन्य-सहायक-क्रियाकलापानामपि संवर्धनं भविष्यति। अनेन गुना-जिलायाः आर्थिक-क्रियाकलापेषु वृद्धिः भविष्यति तथा क्षेत्रीयविकासाय नूतना दिशा प्रदास्यते।
कार्यक्रमे केन्द्रीय-सञ्चारमन्त्री तथा पूर्वोत्तर-क्षेत्र-विकासमन्त्री ज्योतिरादित्य सिंधिया, मध्यप्रदेशस्य खाद्य-नागरिक-आपूर्ति-मन्त्री तथा गुना-जिलायाः प्रभारीमन्त्री गोविन्द सिंह राजपूत सहिताः अन्ये जनप्रतिनिधयः अपि उपस्थिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार