Enter your Email Address to subscribe to our newsletters

- मध्यप्रदेशे 1763 कोटिरुप्यकेभ्यः अधिकेन ययेन 2117 किमी लंबस्य 963 मार्गस्य भविष्यति निर्माणम्
सीहोरम्, 10 मईमासः (हि.स.)।
केन्द्रीयकृषिमन्त्रिणा शिवराजसिंहचौहानेन पीएमजीएसवाई-चतुर्थ-योजनायाः पीएमजनमन-योजनायाश्च शुभारम्भः
केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अद्य रविवासरे मध्यप्रदेशस्य सीहोर-जिलायाः भैरूंदा-क्षेत्रे आयोजिते भव्यकार्यक्रमे प्रधानमन्त्री-ग्राम-सड़क-योजना-चतुर्थ-चरणस्य (पीएमजीएसवाई-चतुर्थ) पीएमजनमन-योजनायाश्च शुभारम्भं करिष्यति। अस्मिन् अवसरे प्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव अपि उपस्थितः भविष्यति।
जनसम्पर्काधिकारी देवेन्द्र ओगारे अवदत् यत् सीहोर-जिलायाः भैरूंदा-क्षेत्रे प्रधानमन्त्री-ग्राम-सड़क-योजना तथा पीएमजनमन-योजनायाः अन्तर्गतं राज्यस्तरीयः कार्यक्रमः आयोज्यते। अस्मिन् कार्यक्रमे केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः, मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादवः, पञ्चायत-ग्रामीण-विकासमन्त्री प्रहलादसिंह पटेलः, भारतसरकारस्य ग्रामीणविकास-सञ्चार-राज्यमन्त्री डॉ. चन्द्रशेखर पेम्मासानी, ग्रामीणविकास-राज्यमन्त्री कमलेश पासवानः सहिताः अनेकाः जनप्रतिनिधयः वरिष्ठाधिकारीणश्च सहभागिनः भविष्यन्ति।
तेन उक्तं यत् कार्यक्रमे प्रधानमन्त्री-ग्राम-मार्ग-योजना-चतुर्थ-चरणस्य तथा पीएमजनमन-योजनायाः शुभारम्भः भविष्यति। प्रधानमन्त्री-ग्राम-सड़क-योजना-चतुर्थ-चरणस्य अन्तर्गतं मध्यप्रदेशे १७६३ कोटि-रूप्यकाधिक-व्ययेन २११७ किलोमीटर-दीर्घाः ९६३ सड़काः निर्मास्यन्ते। एतासां सड़कानां निर्माणेन प्रदेशस्य ९८७ बसाहटाः उत्तम-सड़क-सम्पर्क-सुविधां प्राप्स्यन्ति, येन ग्रामीणक्षेत्रेषु आवागमनं, शिक्षा, स्वास्थ्यसेवा तथा व्यापारिकक्रियाकलापाः वेगं प्राप्स्यन्ति।
योजनायाः अन्तर्गतं सीहोर-जिलायां १६५ कोटि-रूप्यक-व्ययेन २०९ किलोमीटर-दीर्घाः ८१ सड़काः निर्मास्यन्ते। एताभिः सड़काभिः जिलायाः ८४ बसाहटाः प्रत्यक्षतया लाभान्विताः भविष्यन्ति। ग्रामीणक्षेत्रेषु उत्तम-सड़क-सम्पर्कस्य उपलब्ध्या जनानां आवागमने सुविधा भविष्यति तथा विकासकार्याणाम् अपि नवीनः वेगः भविष्यति।
एवमेव पीएमजनमन-योजनायाः अन्तर्गतं २६१ कोटि-रूप्यकाधिक-व्ययेन ३८४ किलोमीटर-दीर्घाः १६८ सड़काः अपि अनुमोदिताः भविष्यन्ति। एताभिः प्रदेशस्य १६८ वसतयो लाभान्विताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार