Enter your Email Address to subscribe to our newsletters

लखनऊ, 10 मईमासः (हि.स.)।
उत्तरप्रदेशीयराष्ट्रियस्वास्थ्यमिशनस्य स्वास्थविभागस्य च तत्वावधानेन नेशनलनियोनेटोलॉजीफोरम् इत्यस्य सहयोगेन रविवासरे प्रदेशव्यापिनि नियोनेटलरेससिटेशनप्रोग्राम् (नवजातपुनर्जीवनकार्यक्रमः, एनआरपी) अन्तर्गतं एकदिवसीयः प्रशिक्षणकार्यक्रमः आयोजितः। वीराङ्गनाअवन्तीबाईजिलामहिलाचिकित्सालये आयोजितस्य कार्यक्रमस्य उद्घाटनम् अपरनिदेशकः प्रजननबालस्वास्थ्यक्षेत्रस्य (आरसीएच) डॉ. अजयगुप्तः, महाप्रबन्धकः (बालस्वास्थ्यम्) राष्ट्रीयस्वास्थ्यमिशनस्य डॉ. मिलिन्दवर्धनः च अकुरुताम्।
डॉ. अजयगुप्तः अवदत् यत् नियोनेटलरेससिटेशनप्रोग्राम् (एनआरपी) नवजातमृत्युदरे न्यूनीकरणस्य दिशि अत्यन्तं महत्त्वपूर्णा पहलः अस्ति। तेन उक्तं यत् प्रत्येकप्रसवकाले प्रशिक्षितस्वास्थ्यकर्मिणां उपलब्धतां सुनिश्चितुं विशेषबलं दीयते, येन स्वास्थ्यसंस्थासु नवजातपरिचर्यासेवाः अधिकं सुदृढाः भवितुं शक्नुयुः।
डॉ. मिलिन्दः अवदत् यत् जन्मनोऽनन्तरं प्रायः १० तः १५ प्रतिशतं नवजातशिशवः श्वसनकठिनतादिभिः गम्भीरसमस्याभिः पीड्यन्ते। तादृशे सति यदि जन्मनः प्रथममिनिटस्य अन्तः सम्यक् चिकित्सीयप्रबन्धनम् उपलब्धं भवेत् तर्हि नवजातमृत्युः तथा सम्भाव्यमानशारीरिकमानसिकदिव्याङ्गता अपि निवारयितुं शक्यते। तेन उक्तं यत् एतत् प्रशिक्षणं प्रसवकेन्द्रेषु नवजातआपत्कालीनस्थितीनां त्वरितप्रबन्धनक्षमतां सुदृढां करिष्यति, येन अनावश्यकरेफरल्स् न्यूनाः भविष्यन्ति तथा अधिकानां नवजातानां जीवनं सुरक्षितं कर्तुं शक्यते।
डॉ. मिलिन्दः अवदत् यत् प्रदेशस्य सर्वेषु ७५ जनपदेषु मेडिकलकॉलेज्, जिलाचिकित्सालयः तथा जिलामहिलाचिकित्सालयः सहितं कुलं २०५ प्रशिक्षणकेन्द्रेषु प्रायः ६,००० बालरोगविशेषज्ञाः, लेबररूम् तथा एनबीएसयू (न्यूबोर्नस्टेबिलाइजेशनयूनिट्) कर्मकराः प्रशिक्षिताः।
चिकित्सालयस्य प्रमुखचिकित्साअधीक्षिका डॉ. ज्योतिमल्होत्रा अवदत् यत् जनपदे एतत् प्रशिक्षणं वीराङ्गनाअवन्तीबाईजिलामहिलाचिकित्सालये, केजीएमयू, डॉ. राममनोहरलोहियाचिकित्सालये तथा कमाण्डचिकित्सालये आयोजितम्। वीराङ्गनाअवन्तीबाईचिकित्सालयस्य बालरोगचिकित्सकाः, स्टाफनर्स्, रेजिडेण्ट्स् तथा नगरीयसामुदायिकस्वास्थ्यकेन्द्रस्य एन.के. रोड्, ठाकुरगञ्जसंयुक्तचिकित्सालयः, अलीगञ्ज, टुडियागञ्ज, इन्दिरानगर, सिल्वरजुबली, रेडक्रॉस् तथा ऐशबाग इत्येतेषां बालरोगविशेषज्ञाः, स्टाफनर्स् च सहितं ८० प्रतिभागिनः प्रशिक्षणे सहभागीभूताः।
प्रशिक्षणे डॉ. सलमानस्य सह डॉ. फैजानः, केजीएमयू संस्थायाः रेजिडेण्ट्स् मुकुलः तथा डॉ. रिचा, यूपीटीएसयू संस्थायाः डॉ. कीर्तिः च प्रशिक्षकरूपेण सहयोगं कृतवन्तः। प्रशिक्षणस्य अन्ते प्रतिभागिभ्यः प्रमाणपत्राणि प्रदत्तानि।
हिन्दुस्थान समाचार