सुशासनाय विकासाय च नवां गतिं प्रदास्यति नवनियुक्तो मंत्री: पंकज चौधरी
लखनऊ, 10 मईमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमन्त्री पंकजचौधरी रविवासरे प्रदेशशासनस्य सर्वेभ्यः नवनियुक्तमन्त्रिगणेभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च दत्तवान्। प्रदेशभाजपाध्यक्षः पंकजचौधरी विश्वासं व्
प्रदेश अध्यक्ष पंकज चौधरी


लखनऊ, 10 मईमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमन्त्री पंकजचौधरी रविवासरे प्रदेशशासनस्य सर्वेभ्यः नवनियुक्तमन्त्रिगणेभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च दत्तवान्। प्रदेशभाजपाध्यक्षः पंकजचौधरी विश्वासं व्यक्तीकृतवान् यत् सर्वे मन्त्रिगणाः प्रधानमन्त्री नरेन्द्रमोदीस्य मार्गदर्शने मुख्यमन्त्रिणः योगीआदित्यनाथस्य नेतृत्वे जनसेवा, सुशासनम् तथा विकासस्य संकल्पं नवीनगतिं प्रदास्यन्ति।

तेन पक्षस्य निवर्तमानप्रदेशाध्यक्षः भूपेन्द्रसिंहचौधरी सहितः मनोजपाण्डेयः, अजीतसिंहपालः, सोमेन्द्रतोमरः, कैलाशराजपूतः, कृष्णापासवानः, सुरेन्द्रदिलेरः तथा हंसराजविश्वकर्मा इत्येतेभ्यः शुभकामनाः प्रदत्ताः। तेन उक्तं यत् प्रदेशशासनस्य मन्त्रिरूपेण यूयं सर्वे “सबकासाथ्, सबकाविकास्, सबकाविश्वास् तथा सबकाप्रयास्” इति भावनां आत्मसात्कुर्वन्तः प्रदेशस्य निर्धनानां, कृषकाणां, युवानां, महिलानां तथा वञ्चितवर्गाणां कल्याणार्थं समर्पितभावेन कार्यं करिष्यथ।

तेन विश्वासः व्यक्तीकृतः यत् प्रदेशशासनस्य सर्वे नवनियुक्तमन्त्रिगणाः सेवा, सुशासनम् तथा गरीबकल्याणस्य संकल्पेन प्रवर्तमानायाः प्रदेशभाजपाशासनस्य जनकल्याणकारीयोजनानां लक्ष्यसिद्ध्यर्थं निरन्तरं नवीनमानदण्डान् स्थापितुं प्रयतिष्यन्ते।------------

हिन्दुस्थान समाचार