Enter your Email Address to subscribe to our newsletters

बेंगलुरुः, 10 मईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी रविवासरे उक्तवान् यत् किमपि अभियानं तदैव सफलं भवति यदा तेन सह समाजस्य शक्तिः संयुज्यते। तेन उक्तं यत् समाजः राजनीति तथा सरकारेभ्यः अपि अधिकः शक्तिशाली भवति। काचिदपि सरकारा तदैव सफलत्वं प्राप्नोति यदा समाजः स्वयं राष्ट्रनिर्माणे सक्रियसहभागितां निर्वहति।
प्रधानमन्त्री बेङ्गलूरुनगरे आर्टऑफलिविङ्गसंस्थायाः ४५तमवार्षिकोत्सवं तथा गुरुदेवश्रीश्रीरविशङ्करस्य ७०तमजन्मोत्सवसमारोहं सम्बोधयन् आसीत्। प्रधानमन्त्रिणा आर्टऑफलिविङ्गइण्टरनेशनलसेण्टरस्थे नवनिर्मिते ध्यानमन्दिरे उद्घाटनं कृत्वा संस्थायाः मानसिकस्वास्थ्य, ग्रामीणविकास, प्रकृतिसंरक्षण तथा सामाजिकपरिवर्तनसम्बद्धानां राष्ट्रव्यापीसेवाप्रयत्नानां शुभारम्भः कृतः।
स्वीयसम्बोधने मोदी उक्तवान् यत् अद्यतनप्रातःकालः विलक्षणामनुभूतिम् आनयत्। बालकैः वैदिकमन्त्रैः कृतं स्वागतं, भगवान्गणेशस्य दर्शनम्, श्रीश्रीरविशङ्करस्य ७० वर्षाणि तथा आर्टऑफलिविङ्गस्य ४५ वर्षाणि इत्येते क्षणाः तस्य स्मृतिषु सदा स्थास्यन्ति। प्रधानमन्त्री उक्तवान् यत् गुरुदेवेन मञ्चात् याः उक्तयः कथिताः, जनानां कृते यद्यपि तत् तस्य प्रशंसारूपेण अनुभूतम्, किन्तु तस्मै तादृशम् अभवत् यथा तस्मै अधिकं कार्यं समर्प्यते। तेन उक्तं— “यदा भवतः शताब्दीसमारोहः भविष्यति तदा अहं पुनरपि आगमिष्यामि।”
मोदी उक्तवान् यत् दिव्यस्य भव्यस्य च ध्यानमन्दिरस्य लोकार्पणम् एतस्य प्रतीकं वर्तते यत् यदा संकल्पः स्पष्टः भवति तथा सेवाभावेन कार्यं क्रियते तदा प्रत्येकस्य प्रयासस्य सुखदः परिणामः भवति। तेन उक्तं यद् “अन्यत् किमपि भवतु वा न भवतु, वयं सर्वे लोटसस्य छत्रच्छायायाम् स्थिताः स्मः। गुरुदेवस्य आशीर्वादः अस्ति चेत् लोटसस्य छत्रच्छाया एव देशं नूतनाभ्यः उन्नतिभ्यः नयिष्यति।”
प्रधानमन्त्री उक्तवान् यत् बेङ्गलूरुनगरं विश्वे सॉफ्टवेयरसेवाभ्यः प्रसिद्धम् अस्ति, किन्तु एतत् नगरं भारतस्य आध्यात्मिकचेतनां सांस्कृतिकपरिचयं च नूतनाम् उन्नतिं दत्तवति। तेन उक्तं यत् अद्य सम्पूर्णविश्वं भारतस्य आध्यात्मिकमूल्यैः प्रभावितं भवति तथा एताभ्यः प्राचीनपरम्पराभ्यः प्रेरणां प्राप्य ४५ वर्षपूर्वं श्रीश्रीरविशङ्करेण आर्टऑफलिविङ्गस्य बीजं रोपितम्, यत् अद्य विशालवटवृक्षरूपेण जनानां जीवनं स्पृशति।
तेन उक्तं यत् भारतं विविधताभिः परिपूर्णः देशः अस्ति, यत्र अनेकाः भाषाः, परम्पराः, रीतिरिवाजाः तथा उपासनापद्धतयः सन्ति। एताः विविधताः संयोजयन् मूलतत्त्वम् अस्ति यत् “स्वस्य कृते न, अपितु अन्येषां कृते जीवनम्।” मोदी उक्तवान् यत् पीढीपरम्परया प्रवहमानाः संस्कारधाराः समाजं प्रेरयन्ति तथा भारतस्य अनेकानि आध्यात्मिकआन्दोलनानि मानवसेवया एव स्वस्य अभिव्यक्तिं कृतवन्ति।
मोदी स्वच्छभारतअभियानस्य उदाहरणं दत्त्वा उक्तवान् यत् एतत् अधुना केवलं सर्वकारीकार्यक्रमः नास्ति, अपितु जनानां जीवनस्य स्वाभाविकः भागः अभवत् तथा समाजस्य शक्त्या एव अग्रे गच्छति। तेन उक्तं यत् यदा समाजः संयुज्यते तदा देशस्य महतीनां चुनौतीनां सामूहिकसमाधानमपि सम्भवति।
प्रधानमन्त्री महिलानां, जनजातीयसमाजस्य, ग्रामीणसमुदायानां तथा कारागारस्थबन्दिनां मानसिकस्वास्थ्याय आर्टऑफलिविङ्गसंस्थया सञ्चाल्यमानानां कार्यक्रमाणां प्रशंसाम् अकरोत्। तेन उक्तं यत् संस्थया सामाजिकसरोकाराणां स्वकार्यक्रमेषु विशेषमहत्त्वं दत्तम्। तेन युवाशक्तेः विषये संस्थायाः केन्द्रितदृष्टेः अपि प्रशंसा कृता तथा उक्तं यत् अद्य विज्ञानं प्रौद्योगिकी च नूतनसम्भावनानां द्वाराणि उद्घाटयतः। भारतं केवलं परिवर्तनस्य भागी नास्ति, अपितु अनेकेषु क्षेत्रेषु नेतृत्वमपि करोति। भारतस्य डिजिटलक्रान्तिः देशं डिजिटलभुगतानक्षेत्रे वैश्विकनेतारं कृतवती अस्ति, देशः विश्वस्य तृतीयं महत्तमं स्टार्टअपइकोसिस्टम् अभवत् तथा भारतीययुवानः अन्तरिक्षे स्वीयान् उपग्रहान् प्रेषयन्ति।
मोदी उक्तवान् यत् अद्य प्रौद्योगिक्याः माध्यमेन जनाः एकस्मिन् क्षणे विश्वेन सह संयुज्यन्ते, किन्तु स्वयमेव सह संयोजनमपि तावत् आवश्यकम् अस्ति, तथा एतत् भारतस्य महान् आध्यात्मिकपरम्पराभिः सम्भवति। तेन उक्तं यत् भारतस्य निर्माणं तादृशैः युवभिः भविष्यति ये मानसिकरूपेण शान्ताः, सामाजिकरूपेण उत्तरदायिनः तथा समाजस्य प्रति संवेदनशीलाः स्युः। तेन उक्तं यत् ध्यानम् तथा मानसिकस्वास्थ्ये कार्यं कुर्वन्तः केन्द्राणि आगामिकाले महानि चिकित्साकेन्द्राणि भविष्यन्ति।
प्रधानमन्त्री प्राकृतिककृषेः प्रोत्साहनस्य आवश्यकतायाः विषये बलं दत्त्वा उक्तवान् यत् अद्य केवलं मनुष्यः एव न, अपितु धरित्रीमाता अपि “नेचुरलहीलिङ्ग” इत्यस्य आवश्यकता अनुभवन्ती अस्ति। तेन कृषकान् प्राकृतिककृष्या सह संयोजयितुं अधिकप्रयत्नान् कर्तुम् आह्वानं कृतम्। तेन जलसंरक्षणं, विद्युत्सञ्चयः तथा सिंगलयूजप्लास्टिकस्य परित्यागः इत्येषां विषये अपीलं कृत्वा उक्तं यत् एतत् केवलम् अभियानं न, अपितु उत्तरदायी जागरूकजीवनशैल्याः भागः अस्ति। तेन उक्तं यत् ‘मिशनलाइफ’ अपि एकप्रकारेण “आर्टऑफलिविङ्ग” इत्यस्य प्रत्यक्षस्वरूपम् अस्ति, यत् प्रकृत्या सह सन्तुलनं स्थापयित्वा जीवनं यापयितुं प्रेरयति।
---
हिन्दुस्थान समाचार