Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 10 मईमासः (हि.स.)। ।
ओडिशाराज्यस्य उपमुख्यमन्त्री प्रभाती-परिडा बीजद-दलस्य राज्यसभा-सांसद् सुलता-देवी इत्यस्याः उपरि मध्यप्रदेशस्य शिवपुरी-नगरस्य दृश्यचित्रं ओडिशाराज्यस्य इति कथयित्वा प्रसारितवती इति आरोपं कृतवती।
सामाजिक-माध्यमेषु प्रकाशिते स्ववक्तव्ये प्रभाती-परिडा उक्तवती यत् केवलं चर्चायां स्थातुं ओडिशाराज्यं राष्ट्रियस्तरे बदनामयितुं प्रयासः क्रियते। तया उक्तं यत् लोकतन्त्रे सर्वकारस्य आलोचना स्वाभाविकी अस्ति, किन्तु मिथ्या-दृश्यचित्रस्य आश्रयं गृहीत्वा राज्यस्य अपमाननं निन्दनीयम् अस्ति।
उपमुख्यमन्त्री उक्तवती यत् ओडिशाराज्यस्य जनतया पञ्चविंशतिवर्षपर्यन्तं प्रवृत्तां “मिथ्या-सर्ववकारम्” अपास्य प्रधानमन्त्रिणो नरेन्द्रमोदिनः सुशासनं स्वीकृतम्। तया एतदपि उक्तं यत् एकस्य सामान्य-आदिवासी-दरिद्र-परिवारस्य पुत्रस्य मुख्यमन्त्री-रूपेण प्रतिष्ठा केषाञ्चन जनानां कृते सम्भवतः अस्वीकार्याऽस्ति।
प्रभाती-परिडा उक्तवती यत् यदि राजनैतिक-लाभार्थम् ओडिशाराज्यं बदनामयितुं प्रयासः क्रियते, तर्हि तस्य परिणामाः भोक्तव्याः भविष्यन्ति।
हिन्दुस्थान समाचार