जोसेफ विजयस्य प्रथमा घोषणा- तमिलनाडौ प्रत्येकंशङ्गृहाय 200 यूनिटमिता विद्युन्निःशुल्कम्
चेन्नई, 10 मईमासः (हि.स.)।तमिलगा-वेत्री-कझगम (टीवीके) दलस्य प्रमुखः सी. जोसेफ-विजयः अद्य शपथग्रहणानन्तरं तमिलनाडु-सचिवालये राज्यस्य मुख्यमन्त्रिरूपेण कार्यभारं स्वीकृतवान्। तेन शपथग्रहणानन्तरं प्रथमं महिलासुरक्षार्थं विशेषबलस्य गठनसम्बद्धेषु तथा घर
“200 यूनिट बिजली मुफ्त”.. मुख्यमंत्री जोसेफ विजय का पहला हस्ताक्षर!!


चेन्नई, 10 मईमासः (हि.स.)।तमिलगा-वेत्री-कझगम (टीवीके) दलस्य प्रमुखः सी. जोसेफ-विजयः अद्य शपथग्रहणानन्तरं तमिलनाडु-सचिवालये राज्यस्य मुख्यमन्त्रिरूपेण कार्यभारं स्वीकृतवान्। तेन शपथग्रहणानन्तरं प्रथमं महिलासुरक्षार्थं विशेषबलस्य गठनसम्बद्धेषु तथा घरेलूपभोक्तृभ्यः २०० यूनिट्-पर्यन्तं निःशुल्क-विद्युत्प्रदानसम्बद्धेषु प्रथम-प्रलेखेषु हस्ताक्षरं कृतम्।

जोसेफ-विजयः प्रथमं राज्यस्य सर्वेभ्यः गृहेभ्यः २०० यूनिट्-पर्यन्तं निःशुल्क-विद्युत्प्रदानस्य घोषणासम्बद्धे प्रलेखे हस्ताक्षरं कृतवान्। ततः परं तेन महिलासुरक्षार्थं विशेषबलस्य (“सिङ्गप्पेन् स्पेशल् टास्क् फोर्स्”) गठनसम्बद्धे प्रलेखे हस्ताक्षरं कृतम्। विजयेन मादकद्रव्यविरोधी-अभियानस्य तथा मादकपदार्थनिरोधसम्बद्धेषु प्रलेखेष्वपि हस्ताक्षरं कृतम्।

अस्मात् पूर्वं चेन्नईनगरस्थिते जवाहरलाल-नेहरू-इण्डोर्-स्टेडियम् इत्यत्र प्रातः प्रायः दशवादने तमिलनाडुराज्यस्य प्रभारी-राज्यपालेन तस्मै मुख्यमन्त्रिपदस्य गोपनीयतायाश्च शपथः प्रदत्तः। अस्मिन् अवसरे समर्थकानां कार्यकर्तॄणां च घोषैःक्रीडांगणं गुञ्जितम्।

तस्य पिता निर्देशकः एस्. ए. चन्द्रशेखरः तथा माता शोभा भावुकौ अभवताम्। समारोहे तस्य परिवारस्य सदस्याः, चलचित्र-जगतः प्रसिद्धव्यक्तयः, गठबन्धन-दलानां नेतारः च उपस्थिताः आसन्।

अस्मात् पूर्वं सामान्यतया मुख्यमन्त्रीपदं स्वीकुर्वन्तः नेतारः सचिवालयं गत्वा प्रलेखेषु हस्ताक्षरं कुर्वन्ति स्म, किन्तु विजयेन शपथग्रहणस्य तत्क्षणमेव जनानां पुरतः प्रलेखेषु हस्ताक्षरं कृतम्। तेषु तस्मिन् प्रलेखे अपि समावेशः अस्ति यस्मिन् प्रतिद्विमासं २०० यूनिट्-पर्यन्तं निःशुल्क-विद्युत्प्रदानस्य घोषणा कृता अस्ति।

विजयः स्वभाषणस्य आरम्भं “मम हृदये निवसन्तः जनाः…” इति वाक्येन कृतवान्।

तेन उक्तं यन्मया अपि ज्ञातम् अस्ति यत् जीवने निर्धनता का भवति। क्षुधा का भवति, एतदपि अहं जानामि। अहं कस्यचित् राजवंशात् न आगतः। अहं भवद्भ्यः मध्ये एव एकः अस्मि। भवतां परिवारस्य सदस्यवत् अस्मि। अहं स्वात्मानं सदा तथैव अनुभवामि। यूयं अपि मां तथैव स्वीकृतवन्तः, अतः एव यूयं मां चलच्चित्रजगति एतादृशं महान् स्थानं दत्तवन्तः।”

विजयेन उक्तम् “अहं भवतां ऋणं परिशोधयितुं राजनीतिक्षेत्रे आगतः। तदा यूयं माम् उक्तवन्तः— ‘आगच्छ विजय… वयं सर्वं व्यवस्थापयिष्यामः।’ यूयं मां एतावता प्रेम्णा अपनत्वेन च स्वीकृतवन्तः।”

विजयस्य दलं तमिलगा-वेत्री-कझगम (टीवीके) प्रथम एव निर्वाचने उत्कृष्टं प्रदर्शनं कृत्वा १०८ आसनानि विजितवान् तथा काँग्रेस्, वीसीके, वामदलेभ्यः च समर्थनं प्राप्य ११८ इति बहुमताङ्कं अतिक्रान्तवान्। काँग्रेस्-दलस्य नेता राहुलगान्धी सहिताः अनेके प्रमुखनेतारः शपथग्रहणसमारोहे उपस्थिताः आसन्। तमिलनाडुराज्यस्य मुख्यमन्त्री विजयः सरकारनिर्माणे समर्थनं दत्तवन्तः काँग्रेस्, वीसीके तथा वामदलान् धन्यवादं प्रदत्तवान्।

तमिलनाडुराज्यस्य मुख्यमन्त्री विजयः जनान् प्रति अपीलं कृतवान् यत् तस्मै कार्यसम्पादनार्थं यथोचितः समयः प्रदीयताम्, येन परिणामाः प्रदर्शयितुं शक्येरन्। तेन राज्यस्य वित्तीयस्थितेः विषये श्वेतपत्रं प्रकाशितुं तथा पूर्णपारदर्शितया अग्रे गन्तुं प्रतिज्ञा कृता। सहैव तेन पूर्वसरकारस्य उपरि राज्ये महत्तरं ऋणभारं आरोपितम् इति आरोपः कृतः तथा उक्तं यत् सः जनतायै मिथ्यावचनानि न दास्यति।

---------------

हिन्दुस्थान समाचार