Enter your Email Address to subscribe to our newsletters

चेन्नई, 10 मईमासः (हि.स.)।
तमिलगा-वेट्री-कझगम (टीवीके) दलस्य अध्यक्षः सी. जोसेफ-विजयः अद्य तमिलनाडुराज्यस्य शासनभारं स्वीकृतवान्। चेन्नईनगरस्य जवाहरलाल-नेहरू-इण्डोर्-स्टेडियम् इत्यत्र अद्य प्रातः प्रायः दशवादने आयोजिते भव्यसमारोहे तमिलनाडुराज्यस्य प्रभारी-राज्यपालः राजेन्द्र-अर्लेकरः टीवीके-प्रमुखं विजयम् पदस्य गोपनीयतायाश्च शपथं ग्रहीतवान्। विजयः राज्यस्य त्रयोदशतमः मुख्यमन्त्रीरूपेण शपथवचनं गृहीतवान्।
विजयस्य शपथग्रहणसमये सम्पूर्णं स्टेडियम् करताडन-निनादैः घोषैः च गुञ्जितम्। विजयस्य शपथग्रहणानन्तरं एन्. आनन्दः, आदव-अर्जुनः, अरुणराजः, सेङ्गोट्टैयन्, वेङ्कटरमणन्, निर्मलकुमारः, राजमोहनः, डी. के. प्रभुः तथा कीर्तनाऽपि मन्त्रिरूपेण शपथं गृहीतवन्तः।
अस्मिन् समारोहे विजयस्य परिवारस्य सदस्याः, चलचित्र-जगतः प्रसिद्धव्यक्तयः, गठबन्धन-दलानां नेतारः च उपस्थिताः आसन्। शपथग्रहणसमारोहे काँग्रेस्-दलस्य नेता राहुलगान्धी अपि उपस्थितः आसीत्। तमिलनाडुराजनीतौ वर्षं २०२६ नवीनयुगस्य आरम्भरूपेण दृश्यते।
शपथग्रहणसमारोहे “तमिळ् थाय् वन्दना” गीतस्य स्थाने प्रथमं “वन्दे मातरम्” ततः राष्ट्रगानम् अवाद्यत। अनन्तरं तमिळ् थाय वन्दना प्रस्तुता।
गौरतलबम् यत् तमिलनाडु-सर्वकारस्य कार्यक्रमाः सामान्यतया तमिळ् थाय् वन्दनया आरभ्य राष्ट्रगानेन समाप्तिं यान्ति, किन्तु अस्मिन् समारोहे क्रमः परिवर्तितः दृष्टः। अनेन सह राज्यस्य द्वयोः प्रमुखदलयोः डीएमके तथा एआईएडीएमके इत्येतयोः प्रायः षट्दशकपर्यन्तं प्रवर्तमानस्य परिवर्तनेन शासनस्य अन्तः अभवत्।
विजयः गठबन्धन-सरकारस्य नेतृत्वं करिष्यति। अस्मिन् काँग्रेस्-दलं सहयोगिदलरूपेण सम्मिलितम् अस्ति।
---------------
हिन्दुस्थान समाचार