लैंसडाउनमध्ये महिला सशक्तिकरणस्य पर्यावरण संरक्षणस्य च प्रयत्नःप्रशंसितः
पौड़ी गढ़वालम्, 10 मईमासः (हि.स.)। उत्तराखण्डराज्यस्य राज्यपालः लेफ्टिनेण्ट् जनरल् गुरमीतसिंहः (सेवानिवृत्तः) स्वस्य द्विदिवसीय-जनपद-भ्रमण-कार्यक्रमस्य अन्तर्गतं लैन्सडाउन-नगरमध्ये महिलासशक्तीकरणं, स्वरोजगारः तथा पर्यावरणसंरक्षणसम्बद्धाः पहलाः प्
राजयपाल बच्चों से  संवाद करते हुए।


राज्यपाल कार्यक्रम का उदघाटन करते हुए।


पौड़ी गढ़वालम्, 10 मईमासः (हि.स.)।

उत्तराखण्डराज्यस्य राज्यपालः लेफ्टिनेण्ट् जनरल् गुरमीतसिंहः (सेवानिवृत्तः) स्वस्य द्विदिवसीय-जनपद-भ्रमण-कार्यक्रमस्य अन्तर्गतं लैन्सडाउन-नगरमध्ये महिलासशक्तीकरणं, स्वरोजगारः तथा पर्यावरणसंरक्षणसम्बद्धाः पहलाः प्रशंसितवान्। अस्मिन् अवसरे तेन गढ़वाल-राइफल्-रेजिमेण्ट्-केन्द्रे आयोजितेषु विभिन्नकार्यक्रमेषु सहभागिता कृता।

राज्यपालः स्वस्य द्विदिवसीय-जनपद-भ्रमण-कार्यक्रमस्य अन्तर्गतं शनिवासरे सायंकाले लैन्सडाउनम् आगतः।

राज्यपालः सर्वप्रथमं पूर्वसैनिकानां तथा पर्यावरणसंरक्षणस्य समर्पितस्य “पूर्वसैनिक-पर्यावरण-उद्यानस्य” उद्घाटनं कृतवान्। कैण्ट्-बोर्डस्य अधिकारिभिः राज्यपालाय उद्यानस्य संकल्पना, संरचना तथा पर्यावरणीयमहत्त्वस्य विस्तृता सूचना प्रदत्ता। अस्मिन् अवसरे राज्यपालेन उद्याने विकसितानां हरित-व्यवस्थानां तथा पूर्वसैनिकानां सम्मानार्थं कृतानां प्रयासानां प्रशंसा कृता। तेन उक्तं यत् एतादृशी पहलः समाजे पर्यावरणसंरक्षणस्य प्रति जागरूकतां वर्धयति तथा देशसेवायां योगदानं दत्तवन्तः पूर्वसैनिकानां सम्मानस्य प्रतीकं भवति। उद्यानभ्रमणस्य समये राज्यपालेन आर्मी-पब्लिक-स्कूलस्य छात्रैः छात्राभिः तथा स्थानीयनागरिकैः सह आत्मीयः संवादः अपि कृतः।

तदनन्तरं राज्यपालः “ऑल्-वुमेन्-कैफे” इत्यस्य भ्रमणं कृतवान्। अत्र तेन स्थानीयमहिलाभिः निर्मितानां पर्वतीय-पारम्परिक-उत्पादानाम् अवलोकनं कृतम्। राज्यपालः स्थानीय-उत्पादानां गुणवत्तायाः प्रस्तुतीकरणस्य च प्रशंसां कृत्वा उक्तवान् यत् स्थानीय-उत्पादानां प्रोत्साहनं ग्रामीण-अर्थव्यवस्थायाः सुदृढीकरणस्य दिशि महत्त्वपूर्णः चरणः अस्ति। तेन महिलानां प्रयासानां प्रशंसा कृता तथा उक्तं यत् स्वरोजगार-आधारिताः क्रियाकलापाः महिलानां आर्थिकसशक्तीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।

ततः परं राज्यपालः “भुल्ली-सशक्तीकरण-केन्द्रस्य” भ्रमणं कृतवान्। केन्द्रे सञ्चालितानां विभिन्न-प्रशिक्षण-उत्पादन-इकाईनां अवलोकनं कृत्वा तेन तत्र कार्यरताभिः महिलाभिः कार्मिकैः च सह संवादः कृतः। राज्यपालेन धातुकला-विभागः, वीरनारी-कम्प्यूटर-प्रशिक्षण-केन्द्रम्, ब्लॉक्-प्रिण्टिङ्ग्-विभागः, नन्ही-कली-केन्द्रम्, हस्तनिर्मित-कागद-विभागः, ऊनी-टोपी-विभागः, शाल्-विभागः, भण्डार-कक्षः, मोनाल्-ब्यूटी-पार्लरः तथा मसाला-केन्द्रम् निरीक्षितम्।

राज्यपालेन केन्द्रे स्थापितानां विभिन्न-यन्त्राणां प्रशिक्षण-उपकरणानां च निरीक्षणं कृत्वा तत्र कार्यरताभ्यः महिलाभ्यः तासां अनुभवानां कार्यप्रणाल्याश्च विषये जानकारी प्राप्ता। तेन उक्तं यत् “आत्मनिर्भर-भारत” इत्यस्य अवधारणां सुदृढां कर्तुं एतादृशाः प्रशिक्षण-केन्द्राणि अत्यन्तं महत्त्वपूर्णानि सन्ति। तेन स्थानीय-उत्पादानां विपणनस्य तथा स्वसहायतासमूहैः सह उत्तम-समन्वयस्य आवश्यकतायां बलं दत्तम् तथा जिलाधिकारिणं प्रति उक्तं यत् केन्द्रं स्वसहायतासमूहैः तथा सरकारी-योजनाभिः सह संयोज्य अस्य क्रियाकलापानां अधिकः विस्तारः क्रियताम्।

कार्यक्रमस्य अन्तर्गतं कमान्-हॉल् इत्यत्र जिलाधिकारिणा राज्यपालाय जनपदस्य विधिव्यवस्था, विकासकार्याणि, पर्यटनम्, आधारभूत-सुविधाः तथा प्रशासनिक-व्यवस्थानां विषये विस्तृतं प्रस्तुतीकरणं प्रदत्तम्। अस्मिन् अवसरे राज्यपालेन विभिन्न-योजनानां प्रगतिविषये जानकारी गृहीत्वा जनकल्याणकारी-योजनानां प्रभावी-क्रियान्वयनस्य उपरि बलं दत्तम्। अस्यैव क्रमस्य अन्तर्गतं रॉय-हट् इत्यत्र आयोजितायां स्टेशन-ब्रीफिङ्ग्-कार्यक्रमे राज्यपालाय क्षेत्रस्य सैन्य-क्रियाकलापानां, व्यवस्थापनानां तथा सुरक्षासम्बद्ध-विषयाणां जानकारी प्रदत्ता।

लैन्सडाउनस्थिते शहीद-भवानी-दत्त-जोशी-परेड्-ग्राउण्ड् आगमने जिलाधिकारी स्वाति एस्. भदौरिया, मुख्य-विकास-अधिकारी गिरीश-गुणवन्तः तथा गढ़वाल-राइफल्-रेजिमेण्ट्-केन्द्रस्य कमाण्डेण्ट् ब्रिगेडियर् विनोद-नेगी राज्यपालस्य स्वागतं कृतवन्तः। अस्मिन् अवसरे सुरक्षाबलैः राज्यपालाय आकर्षकः “गार्ड्-ऑफ्-ऑनर्” अपि प्रदत्तः।

अस्मिन् अवसरे लेफ्टिनेण्ट् कर्नल् विजय-तोमरः, अपर-पुलिस-अधीक्षकः मनोजकुमार-ठाकुरः, पीडी-डीआरडीए विवेककुमार-उपाध्यायः, उपजिलाधिकारी शालिनी-मौर्या, सीओ निहारिका-सेमवाल् सहिताः सेना-प्रशासन-पुलिस-विभागानां अन्ये अधिकारिणः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार