Enter your Email Address to subscribe to our newsletters

- आईजीआरएस इत्यस्य अप्रैल मासस्य प्रतिवेदने जिलाधिकारीरामपुरम् 98.57 प्रतिशतं अंकान् प्राप्य प्रथमं स्थानम् अलभत
लखनऊ, 10 मईमासः(हि.स.)।मुख्यमन्त्रिणः योगिआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः गतनववर्षेभ्यः समग्रविकासस्य दिशि तीव्रगत्या अग्रे गच्छति। अस्मिन् काले प्रदेशे न केवलं आधारभूतसुविधानां विस्तारः अभवत्, अपितु समाजस्य सर्वेषां वर्गाणाम् उत्थानम् अपि सुनिश्चितं क्रियते। मुख्यमन्त्रिणः योगिनः स्वप्नानां साकारतायां एकीकृतशिकायतनिवारणप्रणाली (आईजीआरएस) महत्त्वपूर्णां भूमिकां निर्वहति। आईजीआरएस माध्यमेन जनसुनवाई, जनकल्याणकारीयोजनानां तथा राजस्वकार्याणां निरन्तरं निरीक्षणं क्रियते, येन जनपदानां उत्तमप्रशासनिकमानकस्थापने साहाय्यं भवति। अस्यैव श्रृङ्खलायाम् आईजीआरएसस्य अप्रैलमासस्य प्रतिवेदने प्रदेशव्यापि रामपुरजनपदः १३८ अङ्कान् प्राप्त्वा प्रथमस्थानं प्राप्तवान्, यदा पीलीभीतः द्वितीयस्थानं तथा श्रावस्ती-अमेठी इत्येतयोः समानाङ्कप्राप्त्या तृतीयस्थानं प्राप्तम्।
एकोनपञ्चाशत् विभागानां एकोनदशाधिकशतकार्यक्रमाणां प्रतिमासं आईजीआरएस माध्यमेन समीक्षा क्रियते।
आईजीआरएस द्वारा प्रतिमासं जनपदानां राजस्वकार्याणां, विकासकार्याणां तथा जनशिकायतश्रवणस्य प्रतिवेदनं प्रकाशितं क्रियते। आईजीआरएस माध्यमेन प्रदेशस्य सर्वेषु जनपदेषु ४९ विभागानां १०९ कार्यक्रमाणां विविधमानकैः समीक्षा क्रियते। ततः परं जनपदानां श्रेणीकरणं प्रकाशितं भवति। आईजीआरएसस्य अप्रैलमासस्य प्रतिवेदनानुसारं रामपुरः १४० पूर्णाङ्केषु १३८ अङ्कान् प्राप्त्वा प्रदेशे प्रथमस्थानं प्राप्तवान्। अस्य अनुपातः ९८.५७ प्रतिशतं वर्तते।
रामपुरस्य जिलाधिकारी अजयकुमारद्विवेदी उक्तवान् यत् आईजीआरएसप्रतिवेदनं तेषां जनपदानां कार्यप्रदर्शनस्य मूल्याङ्कनं करोति, ये प्रशासनिकदक्षतायां, विकासकार्येषु तथा राजस्वप्रबन्धने उल्लेखनीयकार्याणि कृतवन्तः। तेन उक्तं यत् मुख्यमन्त्रिणः योगिआदित्यनाथस्य अभिप्रायानुसारं रामपुरे विकासकार्याणि गुणवत्तापूर्णसमयबद्धरीत्या सम्पन्नानि क्रियन्ते। सहैव आईजीआरएस माध्यमेन प्राप्तानां शिकायतानां गुणवत्तापूर्णतया शीघ्रनिस्तारणं क्रियते। ज्ञातव्यं यत् रामपुरः गतचतुर्मासेभ्यः प्रथमस्थाने एव स्थितः अस्ति।
आईजीआरएसस्य शिकायतानां निस्तारणं क्रियते।
पीलीभीतस्य जिलाधिकारी ज्ञानेन्द्रसिंहः उक्तवान् यत् मुख्यमन्त्रिणः योगिआदित्यनाथस्य निर्देशानुसारं जनपदे प्राथमिकतया जनसुनवाईकार्यक्रमेषु शिकायतानां निस्तारणं क्रियते। एतेनैव कारणेन जनपदे जनशिकायतनिस्तारणदरे निरन्तरं सुधारः दृश्यते। पीलीभीतः निरन्तरं चतुर्मासेभ्यः प्रदेशे द्वितीयस्थानं धारयति। आईजीआरएसस्य अप्रैलमासस्य प्रतिवेदने अपि पीलीभीतः सम्पूर्णप्रदेशे द्वितीयस्थाने अस्ति। पीलीभीतेन १४० पूर्णाङ्केषु १३७ अङ्काः प्राप्ताः। अस्य अनुपातः ९७.८६ प्रतिशतं वर्तते। एवं श्रावस्ती अपि १४० पूर्णाङ्केषु १३६ अङ्कान् प्राप्त्वा तृतीयस्थानं प्राप्तवती। अस्य अनुपातः ९७.१४ प्रतिशतं वर्तते।
श्रावस्त्याः जिलाधिकारी अन्नपूर्णागर्ग उक्तवती यत् विकासपरियोजनानां गुणवत्तापूर्णतया निर्धारितसमयसीमायां च सम्पन्नतायै प्रतिवारं अधिकारिभिः सह उपवेशनानि कृत्वा समीक्षा क्रियते। सहैव सामान्यजनानां शिकायतानां प्राथमिकतया निस्तारणं क्रियते। तेषां समस्यासमाधानस्य सन्तोषजनकप्रतिक्रियायाः अनन्तरमेव आईजीआरएसप्रतिवेदनं प्रकाशितं भवति। एवम् अमेठी अपि १३६ अङ्कान् प्राप्त्वा तृतीयस्थानं प्राप्तवती। अपरं हाथरस, बरेली, हमीरपुर, बदायूं, बाराबंकी तथा बलिया इत्येते शीर्षदशजनपदेषु स्थानं प्राप्तवन्तः।
---------------
हिन्दुस्थान समाचार