योगी मंत्रिमण्डलस्य विस्तारः, षड् नूतनमुखानि सम्मिलितानि, भूपेन्द्र चौधरी अथ मनोज पांडेयश्च जातौ कैबिनेट मंत्रिणौ
षट् नूतनमुखेषु द्वौ मन्त्रिणौ मन्त्रिमण्डलस्तरे नियुक्तौ, चत्वारः राज्य मन्त्रिणः कृताः। द्वाभ्यां राज्य मन्त्रिभ्यां स्वतन्त्रप्रभाररूपेण पदोन्नतिः प्रदत्ता। लखनऊ, १० मई (हि.स.)। उत्तरप्रदेशस्य योगिआदित्यनाथस्य सरकारस्य मन्त्रिमण्डलविस्तारे षट्
जन भवन में शपथ ग्रहण करते भूपेन्द्र चौधरी


षट् नूतनमुखेषु द्वौ मन्त्रिणौ मन्त्रिमण्डलस्तरे नियुक्तौ, चत्वारः राज्य मन्त्रिणः कृताः।

द्वाभ्यां राज्य मन्त्रिभ्यां स्वतन्त्रप्रभाररूपेण पदोन्नतिः प्रदत्ता।

लखनऊ, १० मई (हि.स.)। उत्तरप्रदेशस्य योगिआदित्यनाथस्य सरकारस्य मन्त्रिमण्डलविस्तारे षट् नूतनमुखानि सम्मिलितानि सन्ति। तेषु चत्वारः राज्य मन्त्रिणः तथा द्वौ मन्त्रिमण्डलस्तरस्य मन्त्रिणौ नियुक्तौ। अपरं योगिसरकारस्य द्वयोः राज्य मन्त्र्योः पदोन्नतिः अपि कृता।

प्रदेशस्य राज्यपालः आनन्दीबेनपटेल रविवासरे जनभवनस्य गान्धीसभागारे एतेभ्यः मन्त्रिभ्यः शपथं प्रदत्तवती। मन्त्रिमण्डले ये नूतनमुखानि स्थानं प्राप्तवन्ति तेषु भूपेन्द्रचौधरी, मनोजपाण्डेय, कैलाशराजपूत, कृष्णापासवान, सुरेन्द्रदिलेर तथा हंसराजविश्वकर्मा सम्मिलिताः सन्ति। योगिसरकारस्य ययोः राज्य मन्त्र्योः पदोन्नतिः अभवत् तयोः राज्य मन्त्री सोमेन्द्रतोमर तथा राज्य मन्त्री अजीतसिंहपाल इत्येतौ राज्य मन्त्री (स्वतन्त्रप्रभारः) रूपेण नियुक्तौ। भूपेन्द्रचौधरी तथा मनोजपाण्डेय इत्येतौ मन्त्रिमण्डलमन्त्रिणौ नियुक्तौ, कैलाशराजपूत, कृष्णापासवान, सुरेन्द्रदिलेर तथा हंसराजविश्वकर्मा इत्येते राज्य मन्त्रिणः नियुक्ताः। अस्मिन् अवसरे मुख्यमन्त्री योगिआदित्यनाथः सहितः मन्त्रिपरिषदः सर्वे सदस्याः उपस्थिताः आसन्।

मन्त्रिमण्डलविस्तारे उत्तरप्रदेशभाजपायाः पूर्वाध्यक्षः भूपेन्द्रचौधरी तथा रायबरेलीजनपदस्य मनोजपाण्डेय इत्येतौ मन्त्रिमण्डलमन्त्रिणौ नियुक्तौ। पदोन्नतिं प्राप्तयोः राज्य मन्त्र्योः अजीतसिंहपाल तथा सोमेन्द्रतोमर इत्येताभ्यां राज्य मन्त्री (स्वतन्त्रप्रभारः) रूपेण पदगोपनीयतायाः शपथः गृहीतः। कृष्णापासवान, कैलाशराजपूत, सुरेन्द्रदिलेर तथा हंसराजविश्वकर्मा इत्येते राज्य मन्त्रिरूपेण पदगोपनीयतायाः शपथं गृहीतवन्तः।

भूपेन्द्रचौधरी : पश्चिमोत्तरप्रदेशे जाटराजनीतेः प्रमुखं मुखम्

भाजपायाः उत्तरप्रदेशस्य पूर्वाध्यक्षः भूपेन्द्रसिंहचौधरी पश्चिमोत्तरप्रदेशस्य मुरादाबादक्षेत्रात् आगच्छति। सः विधानपरिषद्सदस्यः अस्ति तथा योगिसरकारस्य प्रथमकार्यकाले पञ्चायतीराजमन्त्रिपदस्य दायित्वं निर्वहितवान्। प्रदेशाध्यक्षत्वकाले तेन संगठनं बूथस्तरपर्यन्तं सुदृढं कर्तुं महती भूमिका निर्वहिता। अतः भूपेन्द्रचौधरिणे दलस्य पक्षतः सम्मानरूपेण एतत् पदं प्रदत्तम्।

मनोजपाण्डेय : समाजवादीदलात् आगतः प्रमुखः ब्राह्मणनेता

मनोजपाण्डेय रायबरेलीजनपदस्य ऊँचाहारविधानसभाक्षेत्रस्य विधायकः अस्ति। सः समाजवादीदले प्रमुखब्राह्मणमुखरूपेण सक्रियः आसीत्। अखिलेशयादवसरकारे मन्त्री अपि आसीत्, किन्तु २०२४ लोकसभानिर्वाचनकाले सः समाजवादीदलात् दूरीं स्थापयित्वा भाजपायाः समर्थनं कृतवान्। मनोजपाण्डेयस्य मन्त्रिमण्डले समावेशेन भाजपा ब्राह्मणमतदातृणां मध्ये स्वसन्देशं प्रेषितवती। रायबरेली तथा अमेठी इत्यादिषु गान्धीपरिवारस्य प्रभावयुक्तप्रदेशेषु अपि तस्य प्रभावः स्वीक्रियते।

अजीतसिंहपाल : पितुः संपदं वहन् समाजे प्रभावशाली नेता

उत्तरप्रदेशसर्वकारस्य राज्य मन्त्री (स्वतन्त्रप्रभारः/राज्य मन्त्री) अजीतसिंहपाल कानपुरदेहातजनपदस्य सिकन्दराविधानसभाक्षेत्रस्य भाजपाविधायकः अस्ति। सः विज्ञानप्रौद्योगिकी, इलेक्ट्रॉनिक्स तथा सूचनाप्रौद्योगिकीविभागस्य कार्यभारं वहति। सः पूर्वभाजपाविधायकस्य मथुराप्रसादपालस्य पुत्रः अस्ति। पितुः निधनानन्तरं राजनीतौ प्रविष्टः। तेन रूसदेशे अध्ययनं कृतम् तथा रासायनिकअभियन्ताररूपेण कार्यं कृत्वा राजनीतौ सक्रियः अभवत्। २०१७ वर्षे पितुः निधनानन्तरं उपनिर्वाचनं स्पर्धित्वा प्रथमवारं विधायकः अभवत्, पुनः २०२२ वर्षे सिकन्दरातः विजयप्राप्त्या राज्य मन्त्री नियुक्तः।

डाॅ. सोमेन्द्रतोमर : मेरठनगरस्य प्राचीनः छात्रनेता

डाॅ. सोमेन्द्रः तादृशः प्रथमः छात्रनेता अस्ति यः छात्रसंघात् निर्गत्य मुख्यराजनीत्यां उच्चस्थानं प्राप्तवान्। डाॅ. सोमेन्द्रः १९९८ तः २००४ पर्यन्तं एबीवीपी संस्थायां आसीत्। १९९८ वर्षे एबीवीपी संस्थायाः विश्वविद्यालयमन्त्री तथा २००४ वर्षे एबीवीपीपैनलतः छात्रसंघाध्यक्षः निर्वाचितः। २००४ वर्षे भाजयुमोसंस्थायाः प्रदेशसंयोजकः आसीत्। २०१२ वर्षे प्रथमवारं भाजपया तस्मै चिटिका प्रदत्ता, किन्तु पश्चात् परिवर्तितम्। २०१७ वर्षे पुनः टिकट् प्राप्तवान् तथा विजयी अभवत्। २०२२ निर्वाचनकाले तेन गठबन्धनप्रत्याशी आदिलचौधरी पराजितः। बागपतजनपदस्य खैलीग्रामनिवासी सोमेन्द्रः मेरठनगरस्य शास्त्रीनगरक्षेत्रे निवसति। तस्य पिता महेन्द्रसिंहतोमर सेवानिवृत्तप्रधानाचार्यः अस्ति।

कृष्णापासवान : दलितप्रतिनिधित्वस्य रणनीतिः

कृष्णापासवान दलितसमाजे विशेषतः पासवानसमुदाये प्रभावशालिनी नेतृ अस्ति। सा फतेहपुरजनपदस्य खागाविधानसभाक्षेत्रस्य विधायिका अस्ति। पूर्वाञ्चले तथा मध्यउत्तरप्रदेशे पासवानमतसङ्घटनं सुदृढं कर्तुं भाजपा तस्यै मन्त्रिपदं प्रदत्तवती इति मन्यते।

कैलाशराजपूत : कन्नौजक्षेत्रस्य चर्चितं मुखम्

लोधीराजपूतसमुदायसम्बद्धः कन्नौजजनपदस्य तिर्वाविधानसभाक्षेत्रस्य भाजपाविधायकः कैलाशसिंहराजपूतः अपि राज्य मन्त्रिपदस्य शपथं गृहीतवान्। तिर्वा तथा छिबरामऊ क्षेत्रयोः तस्य गाढः प्रभावः अस्ति। कैलाशराजपूतस्य लोधीराजपूतमतदातृषु उत्तमा पकड् स्वीक्रियते। सः कन्नौजजनपदस्य लोधीराजपूतसमाजस्य प्रभावशाली नेता मन्यते।

सुरेन्द्रदिलेर : राजनैतिकपरिवारस्य प्रमुखं मुखम्

सुरेन्द्रदिलेर अलीगढ़जनपदस्य खैरविधानसभाक्षेत्रस्य विधायकः अस्ति। सः मूलतः दलितसमाजात् आगतः अस्ति। सः राजनैतिकपृष्ठभूमियुक्तपरिवारस्य दलितनेता अस्ति। तस्य पितामहः किशनलालदिलेर हस्तिनापुरलोकसभाक्षेत्रात् चतुर्वारं सांसदः तथा षड्वारं विधायकः आसीत्। तस्य पिता स्वर्गीयः रवीरसिंहदिलेर हस्तिनापुरक्षेत्रात् भाजपायाः सांसदः तथा एकवारं विधायकः अपि आसीत्। खैरक्षेत्रं अनुसूचितजात्यै आरक्षितम् अस्ति। सुरेन्द्रदिलेरेण अत्र भाजपायाः सुदृढाधारनिर्माणे महती भूमिका निर्वहिता।

हंसराजविश्वकर्मा : ओबीसीराजनीतेः सुदृढं मुखम्

हंसराजविश्वकर्मा प्रधानमन्त्रिणः संसदीयक्षेत्रात् वाराणसीतः विधानपरिषद्सदस्यः अस्ति। सः भाजपायाः प्रमुखेषु ओबीसीनेतृषु गणितः भवति। पूर्वाञ्चलस्य वाराणसी, चन्दौली, भदोही तथा समीपवर्तीजनपदेषु विश्वकर्मासमाजे तस्य प्रभावः दृश्यते। दीर्घकालात् संगठनकार्येषु सक्रियः हंसराजविश्वकर्मा भूमिसम्बद्धः नेता मन्यते। प्रधानमन्त्रिणा बहुवारं तस्य प्रशंसा कृता। भाजपायाः अयादवपिछडावर्गं स्वपक्षे सुदृढतया संयोजयितुं या रणनीतिः अस्ति, तस्याः भागः हंसराजविश्वकर्मा अपि अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनेः संसदीयक्षेत्रात् आगमनकारणेन तस्य राजनैतिकमहत्त्वम् अधिकं वर्धते।

हिन्दुस्थान समाचार