Enter your Email Address to subscribe to our newsletters

वाराणसी, 10 मई (हि. स.)। विष्णुदेव सायः अद्य रविवासरे जशपुर-कबीरधाम-मुंगेली-जनपदानां प्रवासं करिष्यति। निर्धारितकार्यक्रमानुसारं सः प्रातः १०:३० वादने रायपुर-हेलिपट्टिकातः जशपुरं प्रति प्रस्थितो भविष्यति। ग्रामे कलिबा मध्ये सः मध्याह्ने १२:१० वादनात् अपराह्ण १:०० वादनपर्यन्तं निजीकार्यक्रमे सहभागी भविष्यति।
ततः अपराह्णे १:१० वादने जशपुरात् प्रस्थित्य अपराह्णे २:३० वादने कबीरधामं गमिष्यति। तत्र सः अखिलभारतीय-कुर्मी-क्षत्रिय-महासभायाः प्रदेशस्तरीय-सम्मेलने सम्मान-समारोहे च सहभागी भविष्यति।
तदनन्तरम् अपराह्णे ३:०० वादने मुंगेलीं गमिष्यति। तत्र सः मुंगेली-कलक्टरेट-परिसरे भीमराव अंबेडकरस्य प्रतिमायाः अनावरणं करिष्यति।
सायं ४:०० वादने दाऊपारा-चतुष्पथे बाबा-सन्त-गुरुघासीदासस्य तथा पडाव-चतुष्पथे वीरशिरोमणिमहाराणा प्रतापस्य प्रतिमायाः अनावरणं करिष्यति। एवमेव स्टेडियम्-मोड़-निकटे भक्तमाता-कर्मायाः प्रतिमायाः अनावरणं कृत्वा माल्यार्पणं करिष्यति।
---------------
हिन्दुस्थान समाचार