Enter your Email Address to subscribe to our newsletters

-पश्चिमबङ्गाल तथा असमविधानसभानिर्वाचनयोः प्रवासिकार्यकर्तारः सभायां सम्मानिताः।
-‘बूथ् जीता, चुनाव् जीता’ इति मन्त्रं प्रवासिकार्यकर्तृभिः धरातले साकारितम् : पवनसाय।
रायपुर, १० मई (हि.स.)। भारतीयजनतापक्षस्य कुशाभाऊठाकरेपरिसरस्थिते प्रदेशकार्यालये अद्य रविवासरे पश्चिमबङ्गाल तथा असमविधानसभानिर्वाचन २०२६ मध्ये सहभागीभूतानां ‘प्रवासिकार्यकर्तॄणाम्’ एकं विशेषसभायाः आयोजनं कृतम्। अस्यां सभायां उभयराज्ययोः निर्वाचनअभियानेषु प्रवासिकार्यकर्तृभिः कृतानां भूमिस्थकार्याणां, बूथ् प्रबन्धनस्य तथा जनसम्पर्काभियानानां सफलतायाः विषये विस्तृतचर्चा अभवत्।
भाजपायाः क्षेत्रीयसंगठनमहामन्त्री अजयजम्वालः सभां सम्बोधयन् अवदत् यत् अस्मिन् निर्वाचने विभिन्नराज्येभ्यः आगताः प्रवासिकार्यकर्तारः पश्चिमबङ्गालस्य दुर्गमप्रदेशेषु तथा असमस्य चायबागानेभ्यः आरभ्य समतलप्रदेशेषु पर्यन्तं पक्षस्य नीतयः गृहे गृहे प्रापितवन्तः।
भाजपायाः प्रदेशसंगठनमहामन्त्री पवनसायः कार्यकर्तृभ्यः तेषां निरन्तरपरिश्रमस्य कृते धन्यवादं दत्त्वा उक्तवान् यत् “बूथ् जीता, चुनाव् जीता” इति मन्त्रं प्रवासिकार्यकर्तृभिः धरातले साकारितम्। विशेषतया पश्चिमबङ्गाले प्रतिकूलपरिस्थितिषु अपि कार्यकर्तारः लोकतान्त्रिकमूल्यानां रक्षणं कृत्वा संगठनं सुदृढीकृतवन्तः।
सभायां कार्यकर्तारः निर्वाचनकाले प्राप्तान् भूमिस्थानुभवान् तथा मतदातृणां प्रतिक्रियाः सहकृतवन्तः, यत् भविष्यस्य संगठनात्मककार्याणां कृते संकलितं भविष्यति। प्रवासिकार्यकर्तृणाम् एषः अनुभवः केवलं निर्वाचनपर्यन्तं सीमितः न भविष्यति, अपितु आगामिकाले संगठनविस्तारस्य तथा ‘विकसितभारत’ इति संकल्पस्य जनजनपर्यन्तं प्रसारणे उपयोगः भविष्यति।
सभायाः अन्ते निर्वाचनकाले उत्कृष्टकार्यं कृतवन्तः प्रवासिकार्यकर्तारः सम्मानिताः। अस्मिन् अवसरे प्रदेशमहामन्त्री डॉ. नवीनमार्कण्डेयः, यशवन्तजैनः, मन्त्रिणः दयालदासबघेलः, ओपीचौधरी, टंकरामवर्मा, गजेन्द्रयादवः, सांसदः विजयबघेलः सहिताः प्रदेशपदाधिकारिणः तथा विविधमोर्चाणां कार्यकर्तारः उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार