Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, ११ मईमास: (हि.स.)।राष्ट्रीय-स्वयंसेवक-संघस्य अवध-प्रान्तस्य बाल-कार्य-प्रमुखः आशुतोषः रविवासरस्य रात्रौ डॉक्टर-राम-मनोहर-लोहिया-आयुर्विज्ञान-संस्थाने निधनं प्राप्तवान्। अपराह्णे १२:०० वादने लखनऊ-नगरस्य गुलाला-घाटे तस्य अन्त्येष्टि: भविष्यति।
तस्य निधनात् संघस्य कार्यकर्तृषु शोकः व्याप्तः अस्ति। सः संघस्य विविधेषु दायित्वेषु कार्यरतः आसीत्। सम्प्रति तस्य समीपे प्रान्त-बाल-कार्य-प्रमुखस्य दायित्वस्य अतिरिक्तं यूनां मध्ये कार्यं कुर्वत्याः “युवराष्ट्र” इति संस्थायाः उत्तरदायित्वमपि आसीत्।
सः लखनऊ-नगरे सेनायाः लेखा-विभागे कार्यरतः आसीत्।
संघस्य प्रान्त-प्रचार-प्रमुखः डॉ.अशोक-दुबे उक्तवान् यत् — “परमात्मा जीवात्मानं स्व-श्रीचरणयोः स्वीकरोतु तथा च यथायोग्यां श्रेष्ठतमां गतिं प्रददातु। शोक-सन्तप्तानां परिजनानां हृदयस्य क्लेशाग्निं स्व-करुणाधारया शमयित्वा तान् एतत् दुःखं सोढुं धैर्यम् आत्मबलं च प्रददातु। तस्य पदपद्मयोः एषा एव अकिञ्चना प्रार्थना अस्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता