Enter your Email Address to subscribe to our newsletters


-बिहारस्य डिजिटलकेंद्रनिर्माणदिशि कार्यं करिष्यति सर्वकारः : नीतीश मिश्रा
पटना, 11 मईमासः (हि.स.)।बिहारसरकारस्य सूचनाप्रौद्योगिकीविभागस्य मन्त्रिरूपेण सोमवासरे नीतीशमिश्रः पदभारं गृहीतवान्। अस्मिन् अवसरे विभागस्य सचिवः अभयकुमारसिंहः सहिताः अनेकाः वरिष्ठाधिकारिणः उपस्थिताः आसन्।
पदभारग्रहणानन्तरं मन्त्री नीतीशमिश्रः राज्ये सूचनाप्रौद्योगिकीक्षेत्रस्य नूतनदिशां दातुं स्वप्रतिबद्धतां व्यक्तवान्। तेन उक्तं यत् बिहारराज्ये डिजिटलतन्त्रज्ञानस्य, नवाचारस्य तथा तकनीकीनिवेशस्य अपराः सम्भावनाः सन्ति, याः अग्रे नेतुं सरकारः गम्भीरतया कार्यं करिष्यति।
तेन उक्तं यत् राज्ये कृत्रिमबुद्धिमत्ता आधारितसेवानां प्रोत्साहनस्य सह डिजिटलइन्फ्रास्ट्रक्चर इत्यस्य सुदृढीकरणे विशेषबलं दास्यते। सरकारः तकनीक्याः माध्यमेन बिहारं डिजिटलरूपेण सशक्तं कर्तुं तथा युवकेभ्यः जीविकायाःनवान् अवसरान् स्रष्टुं प्राथमिकतायाः आधारेण कार्यं करिष्यति।
मन्त्री उक्तवान् यत् सर्वकारस्य उद्देश्यं बिहारं सूचनाप्रौद्योगिकी तथा डिजिटलनवाचारक्षेत्रयोः अग्रणीयराज्यानां श्रेण्यां समावेशयितुम् अस्ति। अस्य कृते तकनीकीनिवेशस्य आकर्षणं तथा युवानः आधुनिकतांत्रिककौशलैः सह संयोजयितुं विशेषध्यानं दास्यते।-------------
हिन्दुस्थान समाचार