मुख्यमंत्री सायो हाटकेश्वर महादेव मंदिरे कृत्वा पूजा-अर्चनां प्रदेशवासिभ्यः सुख समृद्धिम् अकामयत
रायपुरम् 11 मईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसाय अद्य सोमवासरे राजधानीरायपुरस्य महादेवघाटस्थिते हाटकेश्वरमहादेवमन्दिरे भगवतश्शिवस्य जलाभिषेकं कृत्वा पूजार्चनां कृतवान्। तेन महादेवात् राज्यस्य सुखसमृद्ध्योः कामना कृता। अस्य अवसरस्य कृषिमन्
मुख्यमंत्री साय  हाटकेश्वर महादेव मंदिर में पूजा-अर्चना करते हुए


रायपुरम् 11 मईमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसाय अद्य सोमवासरे राजधानीरायपुरस्य महादेवघाटस्थिते हाटकेश्वरमहादेवमन्दिरे भगवतश्शिवस्य जलाभिषेकं कृत्वा पूजार्चनां कृतवान्। तेन महादेवात् राज्यस्य सुखसमृद्ध्योः कामना कृता।

अस्य अवसरस्य कृषिमन्त्री रामविचारनेताम, वनमन्त्री केदारकश्यप, राजस्वमन्त्री टंकरामवर्मा, विधायकः पुरन्दरमिश्रः, महापौरा मीनलचौबे, जिलापञ्चायताध्यक्षः नवीनअग्रवालः तथा जनप्रतिनिधयः उपस्थिताः आसन्।

उल्लेखनीयं यत् मुख्यमन्त्री साय अद्य हाटकेश्वरमहादेवमन्दिरपरिसरे महादेवघाटे आयोजिते सोमनाथस्वाभिमानपर्वणि सहभागी भवितुं प्राप्तवान्।

---------------

हिन्दुस्थान समाचार