Enter your Email Address to subscribe to our newsletters

रायपुरम् 11 मईमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे राजधानी रायपुर-नगरे आयोजितेषु विभिन्नकार्यक्रमेषु सहभागं करिष्यति। मुख्यमन्त्री प्रातः प्रायः १०:३० वादने महादेवघाट-स्थितं हटकेश्वरनाथमन्दिरं गत्वा विधिविधानपूर्वकं रुद्राभिषेकं करिष्यति।
अयं कार्यक्रमः गुजरातस्य सोमनाथमन्दिरस्य १००० वर्षपूर्तेः अवसरः उपलक्ष्य आयोज्यते। मुख्यमन्त्री महादेवघाटतः एव कार्यक्रमस्य प्रत्यक्षप्रसारणम् अपि द्रक्ष्यति।
ततः परं मुख्यमन्त्री मध्याह्ने २:३० वादने मुख्यमन्त्रिनिवासे आयोजिते कार्यक्रमे दशम-कक्षायाः द्वादश-कक्षायाः च बोर्ड-परीक्षाणां शीर्षस्थानप्राप्त-विद्यार्थिभिः सह मिलिष्यति। अस्मिन् अवसरे सः विद्यार्थिनः सम्मानयित्वा तेषाम् उत्साहवर्धनम् अपि करिष्यति।
---------------
हिन्दुस्थान समाचार