Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री डॉ. यादवः श्री सोमनाथ मंदिर पुर्निर्माणस्य 75तमे वर्षे दत्तवान् मंगलकामनाः
भोपालम्, 11 मईमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः श्रीसोमनाथमन्दिरस्य पुनर्निर्माणस्य पञ्चसप्ततितमीं वर्षगांठीं निमित्तीकृत्य सर्वेभ्यः भक्तेभ्यः मङ्गलकामनाः अददात्।
मुख्यमन्त्री डॉ॰ यादवः उक्तवान् यत् ‘सोमनाथस्वाभिमानपर्व’ केवलम् उत्सवः न, अपितु शताब्दीनां संघर्षानन्तरं प्राप्तायाः सांस्कृतिकस्वतन्त्रतायाः जयघोषः अस्ति। तेन सोमवासरे सामाजिकमाध्यमस्य माध्यमेन स्वविचाराः व्यक्तीकृताः।
मुख्यमन्त्री डॉ॰ यादवः उक्तवान् यत् गुजरातस्य पुण्यधरायां प्रथमज्योतिर्लिङ्गरूपेण विराजमानस्य भगवान् श्रीसोमनाथस्य भव्यस्य मन्दिरस्य पुनर्निर्माणस्य पञ्चसप्ततितमीवर्षगंथेः अवसरे शिवभक्तेभ्यः हार्दिकाः बधायाः तथा मङ्गलकामनाः।
---------------
हिन्दुस्थान समाचार