Enter your Email Address to subscribe to our newsletters

भाेपालम्, 11 मईमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः राष्ट्रिय-प्रौद्योगिकी-दिवसस्य अवसरः उपलक्ष्य हार्दिक-शुभकामनाः बधाईश्च प्रदत्तवान्।
मुख्यमन्त्री डॉ यादवः सोमवासरे सोशल-मीडिया “एक्स” इत्यस्मिन् पोस्ट् कृत्वा अलिखत् — “समस्त-देशवासिभ्यः प्रतिभाशालिभ्यः वैज्ञानिकेभ्यश्च ‘राष्ट्रीय-प्रौद्योगिकी-दिवसस्य’ हार्दिक-शुभकामनाः। आदरणीय-प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतदेशः ‘तकनीक’ तथा ‘नवाचार’ क्षेत्रयोः विश्वस्य नेतृत्वं करोति। अद्यतनः दिवसः अस्माकं सर्वेषां वैज्ञानिकानाम् अभियन्तॄणां च कौशलाय नमस्कारं कर्तुं समर्पितः अस्ति, येषां दूरदर्शितया भारतं सामरिक-तांत्रिक-दृष्ट्या शक्तिशाली राष्ट्रं निर्मितम्।”
उल्लेखनीयम् अस्ति यत् भारतदेशे प्रतिवर्षं ११ मे तिथौ ‘राष्ट्रिय-प्रौद्योगिकी-दिवसः’ आचर्यते। अयं दिवसः ११ मे १९९८ तिथौ पोखरण-प्रदेशे सम्पन्नस्य सफल-परमाणु-परीक्षणस्य “ऑपरेशन्-शक्ति” इत्यस्य ऐतिहासिक-स्मृत्यर्थम् आचर्यते।
११ मे १९९८ तिथौ भारतदेशेन राजस्थानस्य पोखरण-प्रदेशे द्वितीयं सफलं परमाणु-परीक्षणं सम्पन्नम् आसीत्। ततः अनन्तरं तत्कालीन-प्रधानमन्त्री अटल-बिहारी-वाजपेयी इत्यनेन एषः दिवसः “राष्ट्रिय-प्रौद्योगिकी-दिवसः” इति घोषितः। अयं दिवसः देशस्य वैज्ञानिक-उपलब्धीनां, अभियन्तॄणां, तांत्रिक-आत्मनिर्भरत्वस्य च सम्मानार्थं समर्पितः अस्ति।
---------------
हिन्दुस्थान समाचार