Enter your Email Address to subscribe to our newsletters


अजमेरम्, 11 मईमासः (हि.स.)।
मुख्यमन्त्री भजनलालशर्मा पुष्करस्य कड़ैल-ग्रामे आयोजिते ग्रामविकास-चौपाल-कार्यक्रमे कृषकैः युवभिः ग्रामीणजनैश्च सह प्रत्यक्षसंवादं कुर्वन् उक्तवान् यत् कृषि-डेयरी-सहकारिता-क्षेत्राणां सुदृढतया ग्रामाणाम् आर्थिकस्थितिः सुदृढा भविष्यति तथा ग्रामीणजीवनस्तरे व्यापकः सुधारः आगमिष्यति।
तेन कृषकेभ्यः आधुनिक-जैविक-कृषेः स्वीकरणाय अपीलं कृत्वा उक्तम् यत् परम्परागत-कृषेः सह तकनीकी-नवाचारैः प्रोसेसिंग-यूनिट्-व्यवस्थाभिश्च कृषकाणाम् आयां उल्लेखनीयवृद्धिः सम्भवा अस्ति।
मुख्यमन्त्रिणा उक्तम् यत् राज्यसर्वकारस्य लक्ष्यं ग्रामान् आत्मनिर्भरान् समृद्धांश्च निर्मातुम् अस्ति। एतदर्थं कृषि-पशुपालन-डेयरी-सहकारिता-स्थानीय-रोजगार-अवसराणां प्रोत्साहनं क्रियते। तेन उक्तम् यत् गोधूम-क्रयण-बोनस्, किसान-सम्मान-निधि-योजना, गोपाल-क्रेडिट्-कार्ड्-योजना, मङ्गला-पशु-बीमा-योजना, मोबाइल-पशु-चिकित्सा-यूनिट् तथा दुग्ध-उत्पादक-संबल-योजना इत्यादयः योजनाः कृषकाणां पशुपालकानां च आर्थिक-सुदृढतां प्रददति।
तेन उक्तम् यत् स्थानीय-उत्पादनानुसारं ग्रामेषु प्रोसेसिंग-यूनिट्-स्थापनात् कृषकाः स्वस्य उपजस्य श्रेष्ठं मूल्यं प्राप्स्यन्ति तथा ग्रामीण-प्रदेशेषु रोजगारस्य नूतनाः अवसराः सृज्यन्ते। सहैव कृषकान् फलवृक्षारोपणाय प्रेरयन् तेन एतत् आयवृद्धये पर्यावरणसंरक्षणाय च उपयोगी इति कथितम्।
मुख्यमन्त्री युवानः सम्बोधयन् उक्तवान् यत् प्रदेशसर्वकारः स्वरोजगार-रोजगारयोः कृते ऋणसुविधाः प्रददाति तथा “राइजिंग्-राजस्थान” इत्यस्य अन्तर्गतं सम्पन्नाः निवेश-सम्झौताः भूमौ कार्यरूपेण परिणमन्ति। तेन उक्तम् यत् भर्ती-परीक्षासु पारदर्शिता सुनिश्चित्य युवानां विश्वासः सुदृढीकृतः अस्ति। कड़ैल-ग्रामस्य १३ युवानः सर्वकारीय-सेवासु चयनिताः इति ग्रामस्य गौरवस्य विषयः अस्ति।
कार्यक्रमस्य समये मुख्यमन्त्री प्रगतिशील-कृषकैः युवभिश्च सह संवादं कृतवान्। जैविक-कृषिः, ड्रिप्-सिञ्चनम्, फव्वारा-सिञ्चनम्, सोलर-पम्प्-योजना इत्यादीनां लाभार्थिनः स्वानुभवान् साझा कृतवन्तः। आरएएस-परीक्षायां प्रथमस्थानं प्राप्तवान् कुशलचौधरी सहिताः चयनित-युवानः भर्ती-प्रक्रियायां पारदर्शितायै मुख्यमन्त्रिणः प्रति कृतज्ञतां व्यक्तवन्तः।
मुख्यमन्त्री रविवासरस्य रात्रौ कार्यक्रमस्य अनन्तरं ग्रामे रात्रिविश्रामं कृतवान् तथा ग्रामीण-परिवारेण सह भोजनं कृत्वा आत्मीयतायाः सन्देशं दत्तवान्।
अस्मिन् अवसरे केन्द्रीय-कृषि-किसान-कल्याण-राज्यमन्त्री भागीरथचौधरी, जलसंसाधनमन्त्री सुरेशसिंहरावतः, विधायकाः अन्ये जनप्रतिनिधयश्च उपस्थिताः आसन्।
ग्रामविकास-चौपाल-कार्यक्रमस्य माध्यमेन मुख्यमन्त्रिणा स्पष्टं कृतम् यत् राज्यसर्वकारस्य केन्द्रबिन्दुः ग्राम-कृषक-युव-केन्द्रित-विकासः अस्ति, येन ग्रामीण-राजस्थानम् आर्थिक-सामाजिक-दृष्ट्या सशक्तं कर्तुं शक्यते।
---------------
हिन्दुस्थान समाचार