Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, ११ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्र-मोदिना वर्तमान-वैश्विक-सङ्कटस्य दृष्ट्या राष्ट्रहिताय नागरिकेभ्यः विविध-बचत-उपायानां पालनार्थम् आग्रहः कृतः।मुख्यमन्त्री डॉ.यादवः सोमवासरे मन्त्रालये मन्त्रिपरिषदः सभायाः पूर्वं मन्त्रिगणैः सह महत्त्वपूर्णविषयेषु चर्चां कुर्वन् आसीत्। तेन उक्तं यत् प्रधानमन्त्रिणा मोदिना सार्वजनिक-परिवहन-सेवानां अधिकाधिक-उपयोगस्य आग्रहः कृतः। “वर्क-फ्रॉम-होम” तथा “वर्चुअल-मीटिङ्ग” इत्येतयोः प्रोत्साहनम् अपि करणीयम् इति तेन उक्तम्। अन्तर्जाल-तथा-वर्चुअल-वीडियो-कॉन्फरेन्स-प्रकारस्य व्यवस्थाः प्राधान्येन स्वीकर्तव्याः इति अपि उक्तम्। मुख्यमन्त्री डॉ.यादवः प्रधानमन्त्रिणा कृतेषु आह्वानेषु प्रदत्तेषु विचारेषु च पालनार्थं नागरिकेभ्यः अनुरोधं कृतवान्।
राष्ट्रहिताय सूचनानां पालनस्य आग्रहः
मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् प्रधानमन्त्रिणा मोदिना वैश्विक-सङ्कटं सप्लाई-चेन-सम्बद्ध-समस्याः च दृष्ट्वा तेषां विचाराणां पालनस्य आग्रहः कृतः। प्रधानमन्त्रिणा कृषकेभ्यः डीजल-पम्पस्य स्थाने सौर-पम्प-इत्यस्य उपयोगः रासायनिक-उर्वरकाणां न्यून-प्रयोगः च कृत्वा प्राकृतिक-कृषेः स्वीकृत्यर्थम् अपि आग्रहः कृतः। एतेन पेट्रोलियम-पदार्थानां उर्वरकाणां च आयाते न्यूनता भविष्यति। वर्तमान-वैश्विक-सङ्कटे माल-परिवहनार्थं रेलयानस्य “गुड्स्-ट्रेन”-सेवानां अधिकाधिक-उपयोगस्य अपि आग्रहः कृतः।
मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् सामान्यजनाः सार्वजनिक-परिवहन-सेवानां उपयोगेन अथवा विद्युत्-वाहनानां उपयोगेन इन्धन-संरक्षणे सहयोगं कुर्वन्तु। प्रधानमन्त्रिणः आग्रहानुसारं अस्मिन् सङ्कटकाले न्यूनातिन्यूनम् एकवर्षपर्यन्तं विदेश-गमन-योजना अपि स्थगनीया। देशस्य अन्तर्गत-पर्यटन-स्थलानां भ्रमणस्य आग्रहः कृतः। सहैव नागरिकेभ्यः एकवर्षपर्यन्तं सुवर्ण-क्रयस्य परित्यागस्य अपेक्षा कृता। एतदेव न, खाद्य-तैलस्य उपयोगे न्यूनतायाः आग्रहः प्रत्येकं कुटुम्ब-स्तरे अपि करणीयः इति उक्तम्।
ग्रामीण-विकासस्य नूतन-प्रकल्पाः
मुख्यमन्त्री डॉ.यादवः मध्यप्रदेशे प्रधानमन्त्री-ग्राम-सड़क-योजना तथा पीएम-जनमन-योजनायाः अन्तर्गतं १० मे-दिने सीहोर-जनपदे विविध-कार्यक्रमाणां प्रकल्पानां च शुभारम्भस्य उल्लेखं कृतवान्। तेन उक्तं यत् प्रधानमन्त्री-ग्राम-सड़क-योजनायाः क्रियान्वयनस्य २५ वर्षाणि पूर्णानि भवन्ति। प्रदेशे १७६३ कोटि-रूप्यकाणां व्ययेन २११७ किलोमीटर-दीर्घाणां ९७३ मार्गाणां निर्माणस्य अनुमतिः प्रदत्ता। एतेन प्रायः १००० बसाहट-निवासिनः लाभान्विताः भविष्यन्ति। पीएम-जनमन-योजनायां ३८४ किलोमीटर-दीर्घस्य मार्ग-प्रकल्पस्य स्वीकृतिः अपि प्राप्ता, येन १६८ बसाहटानां जनाः प्रत्यक्षतया लाभान्विताः भविष्यन्ति। ग्रामीण-विकासस्य दृष्ट्या एताः महत्त्वपूर्णाः स्वीकृतयः सन्ति।
गोधूम-उपार्जने प्रदेशः अग्रणी
मुख्यमन्त्री डॉ.यादवः प्रदेशस्य सर्वाधिक-गोधूम-उपार्जनस्य उपलब्धेः विषये मन्त्रिगणम् अवगतवान्। तेन उक्तं यत् प्रायः १० लक्षाधिक-कृषकेभ्यः उपार्जनं कृत्वा मध्यप्रदेशः सर्वेभ्यः प्रान्तेभ्यः अग्रे वर्तते। अद्यावधि कृषकेभ्यः ६३ लक्ष-मीट्रिक-टन-परिमितस्य गोधूमस्य उपार्जनं सम्पन्नम्। प्रदेशे १९ लक्षाधिक-कृषकैः पञ्जीकरणं कृतम्। १४.८३ लक्ष-कृषकैः स्लॉट्-बुकिङ्ग अपि कृतम्। लघु-मध्यम-कृषकाणां पूर्णः लाभः भवति। प्रतिदिनं चत्वारि लक्ष-मीट्रिक-टन-परिमितस्य गोधूमस्य उपार्जनं भवति। एवं मध्यप्रदेशः स्वनिर्मित-अभिलेखम् अपि अतिक्रम्य अग्रे गच्छति। कृषिक्षेत्रस्य विकासे मध्यप्रदेशस्य कृषकाणां महत्त्वपूर्णं योगदानम् अस्ति।
सोमनाथ-स्वाभिमान-यात्रा
मुख्यमन्त्री डॉ. यादवः मन्त्रिगणं सोमनाथ-परम्परायाः ७५ वर्ष-पूर्णतायाः उपलक्ष्ये आयोजितायाः सोमनाथ-यात्रायाः विषये अवगतवान्। तेन उक्तं यत् भोपालतः ७ मे-दिने स्वाभिमान-यात्रायाः अन्तर्गतं कार्यक्रमः आयोजितः। गुजरातस्य प्रभास-पाटण-स्थले सोमनाथ-मन्दिरस्य निर्माणस्य ७५ वर्ष-पूर्णतायाः अवसरः प्राप्तः, यस्मिन् ८ तः ११ मे-पर्यन्तं सोमनाथ-स्वाभिमान-यात्रा आयोजिता। भोपालस्य रानी-कमलापति-स्थानकात् यात्रिदलस्य समारोहपूर्वकं प्रेषणम् अभवत्।
उन्नत-अग्नि-प्रक्षेपास्त्रस्य सफल-परीक्षणम्
मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् उच्च-प्रौद्योगिकी-युक्तस्य उन्नत-अग्नि-प्रक्षेपास्त्रस्य सफल-परीक्षणे मार्गदर्शनार्थं प्रधानमन्त्रिणः मोदी-महोदयस्य भारतीय-वैज्ञानिकानां च अभिनन्दनम् अपेक्षितम्। प्रधानमन्त्रिणः नेतृत्वे भारतस्य रक्षा-कवचम् अधिकं सशक्तं भवति। भारतं रक्षा-क्षेत्रे नित्यम् नूतन-कीर्तिमानानि स्थापयति।
नागदा-मथुरा-तृतीया-चतुर्थ-रेल-रेखा-परियोजना
मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् नागदा-मथुरा-तृतीया-चतुर्थ-रेल-रेखा-परियोजनायाः स्वीकृतिः मध्यप्रदेशस्य कृते महत्त्वपूर्णा अस्ति। अस्य कृते प्रदेशवासिनः केन्द्र-सर्वकारं प्रति कृतज्ञाः भविष्यन्ति। अस्याः परियोजनायाः माध्यमेन बाबा-महाकालस्य नगरी उज्जयिनी तथा कूनो-राष्ट्रीय-उद्यानस्य समीपपर्यन्तं रेल-सम्पर्कः अधिकः सुगमः भविष्यति। सहैव लॉजिस्टिक्स तथा पर्यटन-क्षेत्रस्य विकासाय नूतना गतिः भविष्यति। एतेषां कार्याणां माध्यमेन स्थानीय-अर्थव्यवस्था अपि सुदृढा भविष्यति इति मुख्यमन्त्री उक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता