Enter your Email Address to subscribe to our newsletters


नवदेहली, ११ मे-मासः (हि.स.)। विनियामक-मञ्चेन सोमवासरे नवदेहल्यां भारत-मण्डपे स्वस्य शततमीं सभां समायोज्य देशस्य विद्युत्-क्षेत्रस्य सुदृढीकरणस्य एकविंशतिवर्षपूर्णत्वस्य उत्सवः आचरितः। सन् २००५ तमे वर्षे स्थापितः अयं मञ्चः विद्युत्-क्षेत्रे संशोधनानि, शुल्क-युक्तिकरणं तथा नीतिगत-समन्वयं च साधयितुं महत्त्वपूर्णां भूमिकां निर्वहति स्म।
विनियामक-मञ्चः अद्य भारत-मण्डपे सफलतया स्वस्य शततमीं सभां सम्पन्नवान्, यत् तस्य एकविंशतिवर्षीय-यात्रायाः प्रमुखा उपलब्धिः अस्ति। सन् २००५ तमे वर्षे स्थापितः अयं ‘विनियामक-मञ्चः’ वैधानिक-मञ्चरूपेण कार्यं करोति, यः विद्युत्-क्षेत्रे विनियामक-प्रथानां समन्वयाय तथा संशोधनाय केन्द्रीय-राज्य-विद्युत्-विनियामक-आयोगान् एकत्र आनयति।
विद्युत्-मन्त्रालयेन उक्तं यत् एतेषु वर्षेषु अनेन मञ्चेन एकसप्तति-अध्ययनानि, पञ्चपञ्चाशत् क्षमता-वर्धन-कार्यक्रमाः च आयोजिताः, पञ्चविंशति-आदर्श-विनियमाः च प्रकाशिताः, षट्-तकनीकी-समिति-प्रतिवेदनानि तथा सप्तत्रिंशत् कार्यसमूह-प्रतिवेदनानि च प्रस्तुतानि। एते सर्वे प्रयत्नाः देशे विद्युत्-क्षेत्रस्य विकासे महत्त्वपूर्णं योगदानं दत्तवन्तः।
अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्र-मोदी-महाशयस्य प्रधान-सचिवः डॉ.पी.के.मिश्रा, भारत-सर्वकारस्य मुख्यार्थिक-परामर्शदाता डॉ.वी.अनन्त-नागेश्वरन् तथा टी.ई.आर.आई.-संस्थायाः विशिष्ट-वक्ता श्री-अजय-शङ्करः प्रमुखातिथिरूपेण उपस्थिताः आसन्। सी.ई.आर.सी./एफ.ओ.आर.-संस्थायाः अध्यक्षः जिष्णु-बरुआमहोदयः च विशिष्ट-अतिथीन् तथा एफ.ओ.आर.-सदस्यान् अस्य शततम-सम्मेलनस्य सन्दर्भे स्वागतम् अकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता