देशे पेट्रोल-डीजल इत्येतयोः पर्याप्तभंडारः उपलब्धः, एलपीजीवितरणं सक्रियम् : सर्वकारः
नवदिल्ली, 11 मईमासः (हि.स)। केन्द्रसर्वकारेण सोमवासरे उक्तं यत् पश्चिमएशियायां प्रवर्तमानस्य संकटस्य अपि देशे पेट्रोल डीजल् इत्यनयोः पर्याप्तः भण्डारः उपलब्धः अस्ति तथा च गार्ह्यपाककार्यस्य आवश्यकतानां कृते एलपीजी इत्यस्य आपूर्तिः नियमितरूपेण क्र
अंतर-मंत्रालयी प्रेस वार्ता को संबोधित करते संयुक्त सचिव सुजाता शर्मा


नवदिल्ली, 11 मईमासः (हि.स)।

केन्द्रसर्वकारेण सोमवासरे उक्तं यत् पश्चिमएशियायां प्रवर्तमानस्य संकटस्य अपि देशे पेट्रोल डीजल् इत्यनयोः पर्याप्तः भण्डारः उपलब्धः अस्ति तथा च गार्ह्यपाककार्यस्य आवश्यकतानां कृते एलपीजी इत्यस्य आपूर्तिः नियमितरूपेण क्रियते। अपरं गतत्रिदिनेषु एव १.२६ कोटि-बुकिङ्ग्-संख्यायाः तुलनायां १.१४ कोटि घरेलुरसोईगैस् (एलपीजी) वितरिताः सन्ति।

पेट्रोलियम-प्राकृतिकगैस्-मन्त्रालयस्य संयुक्तसचिवा सुजाताशर्मा अत्र आयोजितायाम् अन्तर-मन्त्रालयीय-पत्रकार-वार्तायाम् उक्तवती यत् अस्माकं रिफाइनरी-संस्थानानि स्वपूर्णक्षमतया कार्यं कुर्वन्ति। देशस्य कस्यापि रिटेल्-आउटलेट् मध्ये भण्डारसमाप्तेः काचिदपि सूचना न प्राप्ता। एलपीजी-वितरकव्यवस्था अपि सुचारुरूपेण कार्यं कुर्वन्ति तथा च कुत्रापि भण्डाराभावस्य समाचारः नास्ति।

तया उक्तं यत् गतत्रिदिनेषु १७,००० टनाधिकं कमर्शियल् एलपीजी विक्रयितम्। ७६२ टनाधिकम् ऑटो-एलपीजी अपि विक्रयितम्। एतदतिरिक्तं अस्मिन् एव अवधौ १,४०,००० अधिकाः पञ्चकिलो-परिमिताः सिलिण्डराः विक्रयिताः। ऑयल्-मार्केटिङ्ग्-कम्पनीभिः प्रायः ९३ शिविराणि आयोजितानि, येषु २,१०० अधिकाः अनिलकोषाः विक्रीताः।

विदेशमन्त्रालयस्य अतिरिक्तसचिवः (खाड़ी-विभागः) असीम आर. महाजन पश्चिमएशियायाः वर्तमानस्थितेः विषये उक्तवान् यत् विदेशमन्त्रालयं खाड़ी-पश्चिमएशिया-क्षेत्रे घटमानानां घटनाक्रमानां विषये सूक्ष्मतया निगराणीं करोति। अस्माकं प्रयासाः अस्मिन् क्षेत्रे निवसतां विशालभारतीयसमुदायस्य सुरक्षा-कल्याणयोः सुनिश्चितीकरणे केन्द्रिताः सन्ति।

तेन उक्तं यत् सूचनासहकरणार्थं तथा च प्रयासानां समन्वयार्थं वयं राज्यसरकारैः केन्द्रशासितप्रदेशैश्च सह निरन्तरं सम्पर्के स्थिताः स्मः। मन्त्रालये विशेष-नियन्त्रण-कक्षः निर्मितः अस्ति, यः भारतीयनागरिकाणां तेषां परिवारजनानां च प्रश्नानां समाधानार्थं पूर्णतया कार्यरतः अस्ति।

महाजन उक्तवान् यत् अस्मिन् क्षेत्रे स्थितानि अस्माकं दूतावासाः वाणिज्यदूतावासाश्च भारतीयनागरिकेभ्यः समयोचितसहायतां प्रदातुं चतुर्विंशतिघण्टापर्यन्तं हेल्पलाइन-सेवां सञ्चालयन्ति। ते अस्माकं नागरिकाणां सक्रियतया साहाय्यं कुर्वन्ति। ते स्थानीय-सरकारैः सह अपि निरन्तरं सम्पर्के सन्ति।

बन्दरगाह-पोतपरिवहन-जलमार्ग-मन्त्रालयस्य निदेशकः ओपेश कुमार शर्मा उक्तवान् यत् बन्दरगाह-नौवहन-जलमार्ग-मन्त्रालयं विदेशमन्त्रालयेन, विदेशेषु स्थितैः अस्माकं मिशनैः तथा सर्वैः समुद्रीहितधारकैः सह समन्वयं निरन्तरं कुर्वन् अस्ति, येन नाविकानां कल्याणं समुद्रीसञ्चालनस्य निर्बाधप्रवाहश्च सुनिश्चितः भवेत्। अस्मिन् क्षेत्रे स्थिताः सर्वे भारतीयनाविकाः सुरक्षिताः सन्ति। गतत्रिदिनेषु भारतीयध्वजधारिषु व्यापारिकपोतिषु अथवा विदेशध्वजधारिषु व्यापारिकपोतिषु स्थितेषु भारतीयनाविकेषु सम्बद्धा काचिदपि घटना न अभवत्।

-----------

हिन्दुस्थान समाचार