Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 11 मईमासः (हि.स.)।राष्ट्रियप्रौद्योगिकीदिवसस्य अवसरे सोमवासरे ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी देशस्य वैज्ञानिकान्, नवप्रवर्तकान्, अभियन्तॄन् तथा युवा प्रतिभाः शुभकामनाः अददात्। स्वस्य सामाजिकमाध्यमसन्देशे मुख्यमन्त्री उक्तवान् यत् एते सर्वे प्रतिभाशालिनः जनाः स्वीयेन नवाचारेण तथा वैज्ञानिकोत्कृष्टतया भारतस्य प्रगतौ महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेन वैज्ञानिकसमुदायस्य निरन्तरयोगदानस्य प्रशंसा कृता तथा उक्तं यत् अनेन देशस्य तकनीकीक्षमता तथा वैश्विकपरिचयः अधिकं सुदृढः भवति। तेन एतदपि उक्तं यत् ओडिशा समावेशिविकासाय, उत्तमशासनव्यवस्थायै तथा नागरिकसशक्तिकरणाय तकनीक्याः उपयोगस्य प्रति पूर्णतया प्रतिबद्धा अस्ति। राष्ट्रियप्रौद्योगिकीदिवसः भारते विज्ञानतांत्रिकउपलब्धीनां सम्मानार्थं प्रतिवर्षम् आयोज्यते।
---------------
हिन्दुस्थान समाचार