Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ११ मे-मासः (हि.स.)। ऐतिहासिक-सांस्कृतिक-धरोहरस्य संरक्षणस्य दिशि उत्तरप्रदेश-राजकीय-अभिलेखागारः स्वस्य ७७तमं स्थापना-दिवसं आचरितुं सज्जः अस्ति। अस्मिन् अवसरे १३ मे-मासे लखनऊ-स्थिते शहीद-स्मृति-भवने ‘भारतीय-ज्ञान-परम्परायां पाण्डुलिपिनां महत्त्वं भावी-वंशाय उपयोगिता च’ इति विषये राष्ट्रीय-संगोष्ठी अभिलेख-प्रदर्शिनी च आयोजिता भविष्यति। अस्मिन् कार्यक्रमे इतिहास-संस्कृति-अभिलेख-संरक्षणेन सम्बद्धाः अनेके विद्वांसः स्वविचारान् प्रस्तोष्यन्ति।
कार्यक्रमस्य मुख्यातिथिः ख्वाजा-मोइनुद्दीन-चिश्ती-भाषा-विश्वविद्यालयस्य, लखनऊ-नगरस्य कुलपतिः प्रो.अजय-तनेजः भविष्यति, विशिष्टातिथिरूपेण च शकुन्तला-मिश्र-पुनर्वास-विश्वविद्यालयस्य सेवानिवृत्त-अधिष्ठाता प्रो.अविनाश-चन्द्र-मिश्रः उपस्थितः भविष्यति। संगोष्ठ्यां बनारस-हिन्दू-विश्वविद्यालयस्य, लखनऊ-विश्वविद्यालयस्य, बाबा-साहेब-भीमराव-अम्बेडकर-विश्वविद्यालयस्य अन्येषां संस्थानानां च विशेषज्ञाः पाण्डुलिपिषु, अभिलेखेषु, भारतीय-ज्ञान-परम्परायां च स्वव्याख्यानानि दास्यन्ति।
पाण्डुलिपिषु इतिहासे च विशेष-मन्थनम्
संगोष्ठ्याः प्रथम-सत्रे पाली-बौद्ध-अध्ययनस्य, राजनीतिशास्त्रस्य, इतिहासस्य च विशेषज्ञाः भारतीय-ज्ञान-परम्परायाः पाण्डुलिपिनां च उपयोगितायाः विषये चर्चां करिष्यन्ति। द्वितीय-सत्रे तु प्राचीन-इतिहासस्य, संस्कृतस्य, आधुनिक-इतिहासस्य च विद्वांसः अभिलेखानां संरक्षणे शोधकार्ये च तेषां भूमिकां विषये स्वविचारान् प्रस्तोष्यन्ति। कार्यक्रमस्य अन्ते प्रतिभागिभ्यः प्रमाणपत्राणि अपि वितरितानि भविष्यन्ति।पर्यटन-संस्कृति-मन्त्री जयवीरसिंहः सोमवासरे उक्तवान् यत् उत्तरप्रदेश-राजकीय-अभिलेखागारस्य स्थापना २ मे १९४९ तमे वर्षे इलाहाबाद-नगरे ‘सेन्ट्रल-रिकॉर्ड्स-ऑफिस’ इति रूपेण अभवत्। अनन्तरं १९७३ तमे वर्षे एषः कार्यालयः लखनऊ-स्थितं स्थायी-भवनं प्रति स्थानान्तरितः। अधुना एषा संस्था संस्कृतिविभागस्य अधीने कार्यं कुर्वती प्रदेशस्य अभिलेखीय-धरोहरस्य संरक्षण-प्रबन्धन-उपयोगेषु निरन्तरं प्रयत्नशीलाऽस्ति।
तेन उक्तं यत् अभिलेखागारस्य मुख्य-उद्देश्यं प्रदेशस्य विभिन्न-विभागेषु जनपद-कार्यालयेषु च सुरक्षितानां ऐतिहासिक-अभिलेखानां संरक्षणं कृत्वा तान् शोध-जनहितयोः कृते उपयोगिनः कर्तुम् अस्ति। अस्य अन्तर्गतं ३० वर्षात् प्राचीनानां महत्त्वपूर्ण-अभिलेखानां संग्रहः, तेषां वैज्ञानिक-संरक्षणम्, सूचीकरणं, शोधार्थिभ्यः आवश्यक-सुविधानां प्रदायनं च क्रियते। सहैव दुर्लभ-पाण्डुलिपिनां, पुस्तकानां, तथ्यानां च संरक्षणकार्यं अपि विधीयते।
अतिरिक्तरूपेण अभिलेखेषु जनजागरूकतां वर्धयितुं समये-समये अभिलेख-प्रदर्शिन्यः प्रशिक्षण-कार्यक्रमाश्च आयोज्यन्ते। तेन उक्तं यत् एतादृशानि आयोजनानि नववंशं स्वकीय-ऐतिहासिक-धरोहरेण भारतीय-ज्ञान-परम्परया च सह संयोजने महत्त्वपूर्णां भूमिकां निर्वहन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता