राष्ट्रीय-अनुसन्धान-संस्थानं ‘वैश्विक-प्रौद्योगिकी-नेता’ रूपेण निर्मास्यामः : डॉ.जितेंद्रसिंह:
नवदेहली, ११ मे-मासः (हि.स.)। राष्ट्रीय-प्रौद्योगिकी-दिवसस्य अवसरे केन्द्रीय-विज्ञान-प्रौद्योगिकी-पृथ्वी-विज्ञानमन्त्री डॉ.जितेंद्रसिंहः उक्तवान् यत् राष्ट्रीय-अनुसन्धान-संस्थानानां योगदानं भारतं “वैश्विक-प्रौद्योगिकी-नेता”रूपेण स्थापयितुं निर्णायक-
केन्द्रीय मंत्री डॉ. जितेंद्र सिंह (फाइल फोटो)


नवदेहली, ११ मे-मासः (हि.स.)। राष्ट्रीय-प्रौद्योगिकी-दिवसस्य अवसरे केन्द्रीय-विज्ञान-प्रौद्योगिकी-पृथ्वी-विज्ञानमन्त्री डॉ.जितेंद्रसिंहः उक्तवान् यत् राष्ट्रीय-अनुसन्धान-संस्थानानां योगदानं भारतं “वैश्विक-प्रौद्योगिकी-नेता”रूपेण स्थापयितुं निर्णायक-भूमिकां निर्वहिष्यति। तेन उक्तं यत् ‘विज्ञान-टेक’ कार्यक्रमः सहयोग-आधारित-अनुसन्धानस्य नवाचारस्य च आदर्शः भविष्यति।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी-नेतृत्वे भारतस्य वैश्विक-प्रौद्योगिकी-प्रतिष्ठा निरन्तरं वर्धते। आनुवंशिक-संकेत-विवेचनात् अन्तरिक्ष-अनुसन्धानपर्यन्तं भारतस्य उपलब्धयः विश्वस्तरे प्रसिद्धाः भवन्ति। रोबोटिकी, सुनामी-सञ्चेतना-प्रणाली, जैव-सुदृढीकृत-शस्योत्पादनम्, स्वच्छ-ऊर्जा तथा जैव-प्रौद्योगिकी-क्षेत्रेषु भारतदेशः तीव्रं प्रगतिं करोति।

केन्द्रीयमन्त्री उक्तवान् यत् जैव-प्रौद्योगिकी-विभागेन आयोजितः ‘विज्ञान-टेक’ कार्यक्रमः विशेष-आकर्षणस्य केन्द्रम् अस्ति, यस्मिन् १४ मन्त्रालयाः स्वदेशी-प्रौद्योगिकीनां प्रदर्शनं करिष्यन्ति।अस्मिन् अवसरे केन्द्रीय-संसदीय-कार्यमन्त्री किरेन रिजिजू अवदत् यत् ११ मे-दिनाङ्कः भारतस्य इतिहासे गौरवपूर्णः दिवसः अस्ति। तेन उक्तं यत् अटलबिहारीवाजपेयी-नेतृत्वे १९९८ तमे वर्षे सम्पन्नः पोखरण-परमाणु-परीक्षणं भारतदेशम् आत्मनिर्भर-आत्मविश्वासयुक्त-राष्ट्ररूपेण स्थापितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता