(लीड) दिल्ल्यां नितिन गडकरी शुभारभत बैरियर‑लेस टोलिंग प्रणाली, देशस्य द्वितीयम् एमएलएफएफ टोल प्लाजा सक्रियम्
नवदिल्ली, 11 मईमासः (हि.स.)। केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी सोमवासरे देहल्याः यूईआर-II मार्गे स्थिते मुंडका-बक्करवालाटोल्-प्लाजायां मल्टी-लेन् फ्री फ्लो (एमएलएफएफ) बैरियर्-लेस् टोलिङ्ग्-प्रणाल्याः उद्घाटनं कृतवान्। एषा देशे एतादृ
दिल्ली के मुंडका‑बक्करवाला टोल प्लाजा पर मल्टी‑लेन फ्री फ्लो बैरियर‑लेस टोलिंग प्रणाली का उद्घाटन करते केंद्रीय मंत्री नितिन गडकरी।


नवदिल्ली, 11 मईमासः (हि.स.)।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी सोमवासरे देहल्याः यूईआर-II मार्गे स्थिते मुंडका-बक्करवालाटोल्-प्लाजायां मल्टी-लेन् फ्री फ्लो (एमएलएफएफ) बैरियर्-लेस् टोलिङ्ग्-प्रणाल्याः उद्घाटनं कृतवान्। एषा देशे एतादृशी द्वितीया प्रणाली अस्ति। अस्याः पूर्वं २ मई दिनाङ्के गुजरातराज्यस्य एनएच-४८ मार्गस्य सूरत-भरूच खण्डे स्थिते चोरायासी टोल्-प्लाजायां एषा प्रणाली प्रवर्तिता आसीत्।

उद्घाटनसमारोहे केन्द्रीयराज्यमन्त्री हर्षमल्होत्रा, अजयटम्टा, पश्चिमदेहलीतः सांसदः कमलजीतसहरावत, उत्तरपश्चिमदेहलीतः सांसदः योगेन्द्रचन्दौलिया तथा भारतीयराष्ट्रीयराजमार्गप्राधिकरणस्य (एनएचएआई) अध्यक्षः सन्तोषकुमारयादव उपस्थिताः आसन्।

गडकरी उक्तवान् यत् पूर्वं टोल्-प्लाजासु दीर्घाः पङ्क्तयः भवन्ति स्म, येन यात्रिकाः एकैकं घण्टां यावत् प्रतीक्षां कर्तुं बाध्याः भवन्ति स्म। अनेन केवलं समयस्य नाशः न भवति स्म, अपितु वाहनानां पुनः पुनः गियर्-परिवर्तनात् इञ्जिन्-सञ्चालनात् च इन्धनव्ययः अपि वर्धते स्म। नूतनप्रणाल्या एतासां समस्याणां समाधानं भविष्यति तथा च जनानां कृते राहत् प्रदास्यते। तेन उक्तं यत् ज्ञानस्य सम्पत्तौ परिवर्तनमेव भविष्यस्य मार्गः अस्ति तथा च प्रौद्योगिक्याः उपयोगेन राजस्वसङ्ग्रहे पारदर्शिता कार्यदक्षता च वर्धिता अस्ति।

गडकरी उक्तवान् यत् पूर्वं टोल्-सङ्ग्रहात् मन्त्रालयस्य आयः ४०-४५ सहस्रकोटिरूप्यकपरिमिता आसीत्, या फास्टैग्-प्रणाल्याः प्रवर्तनानन्तरं ५५ सहस्रकोटिरूप्यकपर्यन्तं प्राप्तवती। अधुना एमएलएफएफ प्रणालीद्वारा द्वौ महत्त्वपूर्णौ लाभौ भविष्यतः। प्रथमः— टोल्-सङ्ग्रहस्य व्ययः १५ प्रतिशततः न्यूनीकृत्य केवलं ४ प्रतिशतं भविष्यति, येन प्रतिवर्षं प्रायः ५-६ सहस्रकोटिरूप्यकाणां बचतः भविष्यति। द्वितीयः— चोरी तथा राजस्व-रिसावः पूर्णतया निरुद्धः भविष्यति, येन १२-१५ सहस्रकोटिरूप्यकाणां अतिरिक्तलाभः भविष्यति।

तेन उक्तं यत् मन्त्रालयं देहल्याः त्रयः अपशिष्टपर्वतान् निवारयति तथा च तस्मात् निर्गतस्य कचरस्य उपयोगः राजमार्गनिर्माणे क्रियते। प्लास्टिक्, ग्लास् तथा मेटल् पृथक्कृत्य मार्गनिर्माणे उपयुज्यन्ते। पराली-समस्यायाः समाधानार्थम् अपि कार्यं प्रचलति। आईसीआईसीआई संस्थया परालीतः बायो-बिटुमिन् निर्मितम्। अधुना प्रयासः अस्ति यत् पेट्रोलियम-बिटुमिन् मध्ये ३० प्रतिशतं बायो-बिटुमिन्, ७ प्रतिशतं वेस्ट्-प्लास्टिक् तथा १५ प्रतिशतं लूज्-रबर् मिश्रयित्वा मानक-बिटुमिन् निर्मीयेत। अनेन प्रदूषणं न्यूनं भविष्यति, आयातनिर्भरता अपि घटिष्यते तथा च स्वदेशीयोत्पादनस्य प्रोत्साहनं भविष्यति।

तेन उक्तं यत् एमएलएफएफ प्रणालीमध्ये वाहनानां टोल्-प्लाजायां स्थातुं वा गतिं न्यूनां कर्तुं वा आवश्यकता न भविष्यति। हाई-रेजोल्यूशन् कैमरा, ऑटोमैटिक् नम्बर् प्लेट् रिकॉग्निशन् (एएनपीआर), रेडियो फ्रीक्वेन्सी आइडेन्टिफिकेशन् (आरएफआईडी), रडार्, लिडार् तथा फास्टैग्-आधारित-डिजिटल्-नेटवर्कस्य माध्यमेन वाहनानां परिचयः क्रियते। वाहनस्य गमनमात्रेण तस्य फास्टैग्-खातात् स्वतः टोल्-शुल्कं कटिष्यते।

गडकरी उक्तवान् यत् एमएलएफएफ प्रणाली केवलं गतिसुविधयोः विषये नास्ति, अपितु एषा लागत्-बचतस्य कार्यदक्षतावृद्धेश्च महत्त्वपूर्णं पदम् अस्ति। अध्ययनेषु निर्दिष्टम् यत् अनेन प्रतिवर्षं प्रायः २८५ कोटिरूप्यकपरिमितम् इन्धनं रक्षितं भविष्यति, ८१ सहस्रटन-परिमितकार्बन-उत्सर्जने न्यूनता भविष्यति तथा च लक्षशः यात्रासमयः रक्षितः भविष्यति। अनेन लॉजिस्टिक्स्-दक्षतायाम् अपि महत्त्वपूर्णः सुधारः भविष्यति।

तेन उक्तं यत् डिजिटल्-पेमेण्ट् तथा यूपीआई माध्यमेन टोल्-भुगतानं सरलम् अल्पव्यययुक्तं च भविष्यति। नगद-लेनदेनं निरुद्धं भविष्यति, येन १०० प्रतिशतपारदर्शिता उत्तरदायित्वं च सुनिश्चितं भविष्यति। अस्य सह वार्षिक-पास-व्यवस्था अपि आरब्धा अस्ति। ३००० रूप्यकैः पासः उपलब्धः भविष्यति, येन औसततः २०० टोल्-प्लाजासु केवलं १५ रूप्यकाणि प्रति-टोल् दातव्यानि भविष्यन्ति। एषा व्यवस्था आर्थिक-बचतं सुगमयात्रां च सुनिश्चितं करिष्यति।

गडकरी उक्तवान् यत् एमएलएफएफ टोलिङ्ग् प्रणाली डिजिटल्-इण्डिया तथा स्मार्ट्-मोबिलिटी इत्यस्य दिशि महत्त्वपूर्णं पदम् अस्ति। एषा प्रणाली केवलं यात्रिकेभ्यः सुविधा न दास्यति, अपितु पर्यावरणसंरक्षणे, ऊर्जासंरक्षणे तथा राजस्ववृद्धौ अपि महत्त्वपूर्णं योगदानं दास्यति।

एनएचएआई अनुसारम् एषा प्रणाली पूर्णतया बैरियर्-लेस् भविष्यति तथा च कस्यापि भौतिकद्वारस्य मैनुअल्-हस्तक्षेपस्य वा आवश्यकता न भविष्यति। वाहनानि सामान्यगत्या विनाविरामं टोल्-प्लाजां पारं गन्तुं शक्नुवन्ति। अनेन दीर्घपङ्क्तीनां यातायातजामस्य च समस्या न्यूना भविष्यति। निरन्तरगत्या वाहनसञ्चालनेन यात्रासमयः न्यूनः भविष्यति, इन्धनस्य बचतः भविष्यति तथा च उत्सर्जनम् अपि न्यूनं भविष्यति।

अधिकारिणः उक्तवन्तः यत् एषा प्रणाली पूर्णतया डिजिटल् तथा वास्तविककालीननिगराणी-आधारिता अस्ति। अनेन टोल्-सङ्ग्रहप्रक्रिया अधिकपारदर्शिनी भविष्यति तथा च राजस्व-रिसावस्य सम्भावना समाप्ता भविष्यति। प्रणालीद्वारा यातायात-गमनम्, ऑडिट्-ट्रेल् तथा डेटा-एनालिटिक्स् इत्येषां निगराणी अपि कर्तुं शक्यते।

एनएचएआई उक्तवान् यत् प्रथमचरणे नव-राज्यानां सप्तदश-टोल्-प्लाजाः एमएलएफएफ प्रणालीया संयोज्यन्ते। गुजरातस्य चोरायासी-टोल्-प्लाजा पूर्वमेव कार्यरतः अस्ति, यदा तु देहल्याः मुंडका-टोल्-प्लाजा अधुना सञ्चालनम् आरब्धवान्। हरियाणा, राजस्थान, तमिलनाडु, आन्ध्रप्रदेश, महाराष्ट्र, कर्नाटक तथा असम-राज्येषु स्थितान् अनेकान् टोल्-प्लाजान् सेप्टेम्बर-मासपर्यन्तं चरणबद्धरूपेण अस्याः प्रणाल्याः अन्तर्गतं आनयिष्यन्ति। द्वितीयचरणे १०८ अधिक-टोल्-प्लाजान् मार्च् २०२७ पर्यन्तं अस्याः प्रणाल्याः अन्तर्गतं नेतुं योजना अस्ति।

एनएचएआई उक्तवान् यत् टोल्-भुगतानं न कुर्वतां वाहनानां कृते कठोरप्रवर्तनप्रणाली अपि प्रवर्तिता अस्ति। यदि कस्यचित् वाहनस्य फास्टैग् ब्लैकलिस्टेड्, न्यूनशेषयुक्तः अथवा अमान्यः दृश्यते, तर्हि प्रणाली स्वतः द्विगुण-टोल्-शुल्कस्य ई-नोटिस् निर्गमयिष्यति। बकायाभुगतानपर्यन्तं सम्बद्धः फास्टैग् निलम्बितः भविष्यति तथा च सः कस्यापि फास्टैग्-आधारितसुविधायां कार्यं न करिष्यति।

बकाया-टोल-युक्तवाहनानां स्वामित्वहस्तान्तरणार्थं आवश्यकः एनओसी निर्गमितः न भविष्यति। व्यावसायिकवाहनानां फिटनेस-प्रमाणपत्र-नवीकरणे राष्ट्रिय-अनुज्ञापत्र-निर्गमने च बकाया-टोल्-भुगतानस्थितिः अनिवार्यतया सम्बद्धा कृता अस्ति। एतदर्थं १३ जनवरी तथा १७ मार्च दिनाङ्कयोः राजपत्र-अधिसूचनयोः अन्तर्गतं वैधानिकप्रावधानानि प्रवर्तितानि सन्ति।

-------------

हिन्दुस्थान समाचार