केन्द्रीयमन्त्री नितिनः गडकरी देहल्याः मुण्डका-बक्करवाला-टोल-प्लाजा-इत्यत्र बैरियर-रहित-प्रणाल्याः उद्घाटनं कृतवान्, अधुना अविरत्य स्वतः कर-शुल्कस्य कर्तनं भविष्यति
नवदेहली, ११ मे-मासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्री नितिन-गडकरी देहल्याः मुण्डका-बक्करवाला-टोल-प्लाजा-इत्यत्र बहुपङ्क्ति-मुक्त-प्रवाहः (एमएलएफएफ) अवरोधरहित-टोल-सङ्ग्रह-प्रणाल्याः उद्घाटनं कृतवान्। एषा देशस्य द्वितीया एतादृशी प्रणाली
नई दिल्ली में यूईआर-II स्थित मुंडका-बक्करवाला टोल प्लाजा पर मल्टी-लेन फ्री फ्लो (एमएलएफएफ) बैरियर-लेस टोलिंग प्रणाली का उद्घाटन करते केंद्रीय मंत्री नितिन गडकरी। साथ में केंद्रीय राज्य मंत्री हर्ष मल्होत्रा, अजय टम्टा, सांसद कमलजीत सहरावत, योगेंद्र चंदौलिया और एनएचएआई अध्यक्ष संतोष कुमार यादव।


केंद्रीय मंत्री नितिन गडकरी को यूईआर-II स्थित मुंडका-बक्करवाला टोल प्लाजा पर एमएलएफएफ बैरियर-लेस टोलिंग प्रणाली की कार्यप्रणाली की जानकारी देते एनएचएआई के अधिकारी।


नवदेहली, ११ मे-मासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्री नितिन-गडकरी देहल्याः मुण्डका-बक्करवाला-टोल-प्लाजा-इत्यत्र बहुपङ्क्ति-मुक्त-प्रवाहः (एमएलएफएफ) अवरोधरहित-टोल-सङ्ग्रह-प्रणाल्याः उद्घाटनं कृतवान्। एषा देशस्य द्वितीया एतादृशी प्रणाली अस्ति। अस्याः माध्यमेन वाहनानि न स्थगयित्वा सामान्य-गत्या टोल-प्लाजातः पारं गमिष्यन्ति तथा फास्टैग-लेखातः स्वयमेव शुल्कं कर्तिष्यते।

एषा प्रणाली एएनपीआर, आरएफआईडी, रडार, लिडार तथा डिजिटल-जाल-तन्त्रज्ञानस्य उपयोगेन कार्यं करिष्यति। अनेन यातायात-सम्मर्दः न्यूनः भविष्यति, यात्राकालः क्षयिष्यते, ईन्धनावशेषः भविष्यति तथा प्रदूषणमपि न्यूनं भविष्यति।

एनएचएआई-अनुसारम् प्रथम-चरणे नव-राज्यानां १७ टोल-प्लाजा अस्याः प्रणाल्याः अन्तर्गतं आनयिष्यन्ते। कर-प्रदानं न कुर्वतां वाहनानां विरुद्धं दण्डात्मक-कार्यवाही अपि भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता