Enter your Email Address to subscribe to our newsletters

काठमांडूनगरम्, ११ मे-मासः (हि.स.)। नेपाल-सर्वकारेण घोषणा कृता अस्ति यत् पोखरा-अन्ताराष्ट्रिय-विमानपत्तनस्य तथा गौतम-बुद्ध-अन्ताराष्ट्रिय-विमानपत्तनस्य पूर्ण-संचालनाय भारत-देशेन सह यथाशीघ्रं वार्तालापः आरभ्यते।
प्रधानमन्त्री बालेन्द्र-शाह-नेतृत्वाधीन-सर्वकारस्य प्रथम-नीति-कार्यक्रमस्य प्रस्तुतेः समये उक्तं यत् एतेषां द्वयोः नवीन-अन्ताराष्ट्रिय-विमानपत्तनयोः पूर्ण-परिचालनाय तथा अतिरिक्त-वायुसेवाभिः अन्ताराष्ट्रिय-उड्डयन-विस्ताराय भारत-देशेन सह कूटनीतिक-प्रयत्नः क्रियते।
संसदः वित्तविवरण-सत्रस्य प्रथम-दिने राष्ट्रपतिः रामचन्द्र-पौडेलः संयुक्त-सदनस्य सभायां एतां नीति-कार्यक्रम-घोषणां कृतवान्। विदेश-ऋणेन निर्मितयोः एतयोः विमानपत्तनयोः अद्यापि अपेक्षित-संख्या-अन्ताराष्ट्रिय-उड्डयनानि न आकर्षितानि सन्ति इति अपि उक्तम्।
सर्वकारस्य मतम् अस्ति यत् यदि भारतीय-वायुसेवा-संस्थाः इच्छन्ति तर्हि एते द्वे अपि विमानपत्तने पूर्णतया सञ्चालितुं शक्येते। तस्मात् सर्वकारेण भारत-देशेन सह शीघ्रं कूटनीतिक-संवादः आरभ्यते, येन भारतीय-नगरैः सह प्रत्यक्ष-उड्डयन-सेवाः अपि विस्तारिताः भवेयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता