Enter your Email Address to subscribe to our newsletters

वेरावलम् (गिर सोमनाथः) गुजरातम्, 11 मईमासः (हि.स.)।
भगवतः शिवस्य द्वादशसु पवित्रेषु ज्योतिर्लिङ्गेषु प्रथमं ज्योतिर्लिङ्गं “सोमनाथमन्दिरम्” अमृतपर्वणः कृते सम्पूर्णतया सज्जम् अस्ति। प्रथमवारं मन्दिरस्य भव्यशिखरे विशेषकलशेन देशस्य एकादशपवित्रतीर्थानां जलैः कुम्भाभिषेकः क्रियते। अनेन सह सोमनाथस्य गौरवशालिनि इतिहासे स्वर्णिमः अध्यायः अपि योजितः भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः प्रायः दशवादनस्य पञ्चदशमिनिट्-अनन्तरं अस्य आयोजनस्य साक्षी भविष्यति।
विशेषरूपेण निर्मितस्य अष्टफुट-उन्नतस्य कलशस्य क्षमता ११०० लीटर् परिमिता अस्ति। अस्य सम्पूर्णसंरचनायाः भारः १८६० किलोग्रामः अस्ति, यस्मिन् केवलं कलशस्य भारः ७६० किलोग्रामः अस्ति। एवं विशालः तकनीकीदृष्ट्या उन्नतः कलशः स्वयमेव अद्भुत-अभियान्त्रिकी-कौशलस्य उदाहरणम् अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह कार्यक्रमे गुजरातराज्यस्य मुख्यमन्त्री भूपेन्द्रपटेलः उपमुख्यमन्त्री हर्षसंघवी च सहभागिनौ भविष्यतः। देशविदेशेभ्यः सहस्रशः श्रद्धालवः अस्य दिव्यक्षणस्य साक्षिणः भवितुं सोमनाथम् आगतवन्तः। सोमनाथमन्दिरं पुष्पैः सुशोभितम् अस्ति।
सोमनाथ-अमृत-महोत्सवः पुनर्निर्मितस्य मन्दिरस्य उद्घाटनस्य पञ्चसप्ततिवर्षपूर्तेः उपलक्ष्ये आयोज्यते। प्रधानमन्त्री नरेन्द्रमोदी विशेष-महापूजायां सहभागी भविष्यति। ततः परं कुम्भाभिषेक-ध्वजारोहण-समारोहे अपि सहभागं करिष्यति। प्रधानमन्त्री सोमनाथस्य समृद्धविरासतां आध्यात्मिकमहत्त्वं च केन्द्रितं स्मारक-डाक-टिकटं मुद्रां च विमोक्ष्यति।
अमृतमहोत्सवेन सम्बद्धाः अधिकारीणः उक्तवन्तः यत् नवतिमीटर्-उन्नतायाः क्रेन्-यन्त्रस्य साहाय्येन एषः विशालः कुम्भः सावधानतया मन्दिरस्य शिखरं प्रति नीयते। अत्याधुनिक-रिमोट्-नियन्त्रण-प्रणाल्या सेन्सर-प्रणाल्या च साहाय्येन केवलं त्रिमिनिट्-मध्ये शिखरे स्थापितात् कलशात् वैदिकमन्त्र-उच्चारणस्य शङ्खध्वनेः घंटानिनादस्य च मध्ये एकादशपवित्रतीर्थानां पवित्रजलैः शिखराभिषेकः सम्पन्नः भविष्यति। एतत् मन्दिरं गिर्-सोमनाथ-जिल्लायाः प्रभासपाटन-क्षेत्रे अरब-सागरस्य तीरे स्थितम् अस्ति।
---------------
हिन्दुस्थान समाचार