Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 11 मईमासः (हि.स.)।लोकसभायाः नेता प्रतिपक्षः राहुलगान्धी तथा कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे सोमवासरे प्रधानमन्त्रीणः नरेन्द्रमोदिनः संयमितोपभोगस्य आह्वानस्य आलोचनां कृतवन्तौ। विपक्षदलम् प्रधानमन्त्रीणा जनतायै कृतं ‘त्यागस्य’ आग्रहं शासनस्य विफलतायाः दस्तावेजम् इति निरूपितवान्।
राहुलगान्धी ‘एक्स्’ इत्यस्मिन् माध्यमे प्रधानमन्त्रीणः सम्बोधनस्य प्रतिक्रियां दत्त्वा उक्तवान् यत् मोदिना जनतायै सुवर्णक्रयस्य निरसनम्, विदेशयात्रायाः परिहारः, पेट्रोलस्य न्यूनदाहनम्, खाद्यतैलस्य तथा खाद्यपदार्थानां उपयोगे कटौतीकरणस्य च यः आग्रहः कृतः, सः तस्य शासनस्य असफलतायाः प्रमाणम् अस्ति। सः उक्तवान् यद् द्वादशवर्षेषु देशः एतादृशं स्तरं नीतः यत् अधुना जनतायै वक्तव्यं भवति यत् किं क्रेतव्यम्, किं न क्रेतव्यम्। प्रत्येकस्मिन् समये स्वकीयदायित्वं जनतानां उपरि आरोप्यते, येन स्वयम् उत्तरदायित्वात् पलायितुं शक्येत।”
कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे अपि ‘एक्स्’ इत्यस्मिन् माध्यमे प्रधानमन्त्रीणः ‘मितव्ययिताया उपदेशम्’ उपहासपूर्वकं आलोचितवान्। सः उक्तवान् यत् यदा देशस्य जनाः आर्थिकसंकटेन पीड्यमानाः सन्ति, तदा तेषां प्रति उपदेशाः दीयन्ते। सः आरोपितवान् यत् यदा फेब्रुवरीमासे पश्चिमएशियायां युद्धस्थितयः अभवन्, तदा कांग्रेसदलेन अर्थव्यवस्थायाः विनाशः, पतन्मानरूप्यम्, महङ्गता च इत्यादीनि विषयाणि विषये पूर्वमेव संचेतना दत्ता आसीत्, किन्तु शासनं निर्वाचनसभासु व्यस्तम् आसीत्।
सः पृष्टवान् यत् यदा अर्थव्यवस्थायाः तथा खाद्यसुरक्षायाः उपरि संकटस्य छाया वर्तते स्म, तदा प्रधानमन्त्री रोड्-शोकार्यक्रमेषु किमर्थं संलग्नः आसीत्। अधुना निर्वाचनसमाप्तेः अनन्तरं जनतायाः उपरि प्रतिबन्धाः उपदेशाश्च किमर्थं आरोप्यन्ते।
खरगे उक्तवान् यत्
“प्रधानमन्त्री स्वकीयद्वादशवर्षीयविफलतानां भारं जनतानां स्कन्धेषु आरोपयितुं विरमतु।”
तेन गोस्वामितुलसीदासस्य प्रसिद्धा चौपाई अपि उद्धृता—
“परोपदेशे कुशलाः बहवः”
अर्थात् अन्येभ्यः उपदेशदाने बहवः निपुणाः भवन्ति, किन्तु स्वयम् तस्य आचरणं कठिनम् भवति।
उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्रमोदी रविवासरे तेलंगानाराज्यस्य राजधानी हैदराबादे पश्चिमएशियायां प्रवर्तमानस्य युद्धस्य तथा वैश्विकसंकटस्य परिप्रेक्ष्ये देशवासिनः प्रति पेट्रोल-डीजलयोः संरक्षणम्, विदेशयात्रायाः परिहारः, सुवर्णक्रयस्य न्यूनता तथा स्वदेशीवस्तूनाम् उपयोगस्य प्रोत्साहनम् इति विषयेषु आग्रहं कृतवान्।
।
---------------
हिन्दुस्थान समाचार