Enter your Email Address to subscribe to our newsletters


गिर-सोमनाथ:, ११ मे-मासः (हि.स.)। सोमनाथ-मन्दिरस्य पुनर्निर्माणस्य पञ्चसप्ततिवर्ष-पूर्णतायाः उपलक्ष्ये आयोजिते ‘सोमनाथ-अमृतपर्व-२०२६’ समारोहेषु प्रधानमन्त्री तथा सोमनाथ-न्यासस्य अध्यक्षः नरेन्द्रमोदी प्रभास-पाटनम् आगत्य प्रथम-ज्योतिर्लिङ्गस्य भगवतः सोमनाथस्य दर्शन-पूजनं कृतवान्।
मन्दिर-परिसरे शङ्ख-डमरूनिनादैः ‘हर-हर-महादेव’ इति घोषैश्च भक्तिमयं वातावरणम् अभवत्। प्रधानमन्त्रिणः स्वागतार्थं विविध-सांस्कृतिक-प्रदर्शनानि आयोजितानि। मार्गे सः सोमनाथ-विषयक-रेतशिल्पस्य अवलोकनम् अकरोत्। परम्परागत-वेषभूषासु सुसज्जिताः कन्याः अमृत-कलशैः सह तस्य स्वागतं कृतवन्त्यः।
मन्दिर-प्रवेशात् पूर्वं प्रधानमन्त्री सरदारवल्लभभाईपटेलस्य प्रतिमायां पुष्पाञ्जलिम् अर्पितवान्। ततः वैदिक-मन्त्रौच्चारणेन सह गर्भगृहे भगवतः सोमनाथस्य महापूजां कृत्वा राष्ट्रस्य प्रगतिं जनकल्याणं च प्रार्थितवान्। तेन मन्दिर-शिखरे कुम्भाभिषेकः ध्वजारोहणं च कृतम्।
अस्मिन् अवसरे भारतीय-वायुसेनायाः हेलिकॉप्टर-विमानैः पुष्पवृष्टिः कृता, ‘सूर्यकिरण’-विमान-दलेन च आकाशीय-प्रदर्शनं कृतम्। प्रधानमन्त्री सोमनाथस्य गौरवशाली-इतिहास-प्रदर्शनीमपि अवलोकितवान्।
अस्मिन् कार्यक्रमे गुजरातस्य मुख्यमन्त्री भूपेंद्रपटेलः, राज्यगृहमन्त्री हर्षसंघवी, अनेके सन्तः, जनप्रतिनिधयः श्रद्धालवश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता