Enter your Email Address to subscribe to our newsletters

चण्डीगढम्, ११ मईमासः (हि.स.)। हरियाणायाः मुख्यमन्त्री नायबसिंह-सैनी सोमवासरे कुरुक्षेत्रस्य पिहोवा-नगरस्य अरुणाय-स्थिते श्रीसंगमेश्वर-महादेव-मन्दिरे आयोजिते “सोमनाथ-स्वाभिमान-पर्व” राज्यस्तरीय-कार्यक्रमे मुख्यातिथिरूपेण सहभागितां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री मन्दिरस्य गर्भगृहे विधिपूर्वकं पूजाऽर्चनां कृत्वा प्रदेशवासिनां सुख-समृद्धेः प्रसन्नतायाः च कामनाम् अकरोत्।
मुख्यमन्त्री कार्यक्रमस्य समये अरुणायां १०१ महिलानां कलशयात्रां प्रेषितवान्। धार्मिक-आध्यात्मिक-वातावरणे निष्कासितायां अस्यां कलशयात्रायां बहुसंख्यया श्रद्धालवः सहभागितां कृतवन्तः।
अस्मिन् अवसरे मुख्यमन्त्री ४८-कोस-परिमितेः विभिन्न-तीर्थस्थलेभ्यः आगतानां सन्त-महात्मनां स्वागतं अभिनन्दनं च कृतवान् तथा तेषाम् आशीर्वादं प्राप्तवान्। तेन उक्तं यत् एतादृशानि धार्मिक-सांस्कृतिक-आयोजनानि अस्माकं समृद्ध-परम्पराणां सांस्कृतिक-धरोहरस्य सामाजिक-एकतायाश्च सुदृढीकरणस्य कार्यं कुर्वन्ति। कार्यक्रमस्य समये श्रीसंगमेश्वर-महादेव-मन्दिर-परिसरे अरुणाय-लङ्गर-सभागारस्य उद्घाटनम् अपि कृतम्।
मुख्यमन्त्री सूचना-जनसम्पर्क-भाषा-विभागेन हरियाणा-राज्येन “सोमनाथ-स्वाभिमान-पर्व” इति विषये आयोजितायाः विशेष-प्रदर्शिन्याः उद्घाटनम् अवलोकनं च कृतवान्। प्रदर्शिन्यां सोमनाथ-मन्दिरस्य गौरवशालि-इतिहासः, सांस्कृतिक-धरोहरः, देशस्य आस्था-स्वाभिमानयोः सह सम्बद्धाः विविधाः पक्षाः आकर्षकैः चित्रैः सूचनाभिश्च प्रदर्शिताः। मुख्यमन्त्री उक्तवान् यत् एतादृश्यः प्रदर्शन्यः नववंशं स्वकीय-इतिहासेन संस्कृत्या च सह संयोजयन्ति।अस्मात् पूर्वं मुख्यमन्त्री सैनी पवित्र-तीर्थस्थलं ज्योतिसरं प्राप्य विधिपूर्वकं पूजाऽर्चनां कृतवान् तथा प्रदेशस्य सुख-समृद्धेः जनकल्याणस्य च कामनाम् अकरोत्। अस्मिन् समये तेन ज्योतिसरे प्रचलितानां विभिन्न-विकास-कार्याणाम् अपि निरीक्षणं कृतम्। मुख्यमन्त्री उक्तवान् यत् धार्मिक-ऐतिहासिक-स्थलानां विकासः राज्यसर्वकारस्य प्राथमिकतासु अन्तर्भवति, येन देश-विदेशेभ्यः आगच्छद्भ्यः श्रद्धालुभ्यः पर्यटकेभ्यश्च उत्तम-सुविधाः प्रदातुं शक्येरन्।
अस्मिन् अवसरे गीता-मनीषी स्वामी-ज्ञानानन्द-महाराजः, महन्त-रविन्द्र-पुरी-महाराजः, बंसी-पुरी-महाराजः, पूर्व-राज्यमन्त्री सुभाष-सुधा, भाजपा-जनपदाध्यक्षः तेजेन्द्र-गोल्डी, सूचना-जनसम्पर्क-भाषा-विभागस्य अतिरिक्त-निदेशिका वर्षा-खांगवालः, मनीष-लोहान, अम्बाला-शहीद-स्मारकस्य निदेशकः डॉ.कुलदीप-सैनी इत्येतैः सह विभिन्न-धार्मिक-सङ्घटनानां प्रतिनिधयः, सन्त-महात्मानः, गणमान्य-व्यक्तयः, बहुसंख्यकाः श्रद्धालवश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता