Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 11 मईमासः, (हि.स.)।
असमस्य मुख्यमन्त्रिरूपेण डॉ॰ हिमन्तबिस्वसरमा इत्यस्य शपथग्रहणसमारोहात् पूर्वं गुवाहाटीनगरस्य खानापाड़ास्थिते वेटरिनरीकॉलेजक्रीडांगणे सुरक्षाव्यवस्था सुदृढा कृता अस्ति। समारोहः द्वादशमेदिने प्रातः ११:४० वादने आयोजितः भविष्यति।
शपथग्रहणसमारोहस्य निमित्तं कार्यक्रमस्थले व्यापकतयार्यः प्रचलन्ति। समारोहे भाजपायाः वरिष्ठनेतारः, राजगसहयोगिदलानां प्रतिनिधयः, प्रशासनिकाधिकारिणः तथा राज्यस्य सर्वेभ्यः भागेभ्यः बहुसंख्यकाः पक्षकार्यकर्तारः सहभागीभविष्यन्ति इति सम्भावना अस्ति।
क्रीडांगणस्य तथा तस्य समीपप्रदेशस्य च पुलिसबलस्य तैनाती वर्धिता अस्ति। विविधस्थानेषु बैरिकेडाः स्थापिताः सन्ति तथा सुरक्षापरीक्षणचौक्यः अपि निर्मिताः सन्ति। अस्य सह मंचनिर्माणम्, उपवेशनव्यवस्था तथा अन्यव्यवस्थाः अन्तिमरूपेण सज्जीक्रियमाणाः सन्ति।
अस्मात् पूर्वम् असमस्य राज्यपालः लक्ष्मणप्रसादाचार्यः भारतीयसंविधानस्य अनुच्छेदस्य १६४(१) अन्तर्गतं डॉ॰ हिमन्तबिस्वसर्माणं औपचारिकरूपेण मुख्यमन्त्रिणं नियुक्तवान्। अस्य विषये असमसरकारस्य संसदीयकार्यविभागेन अधिसूचना निर्गता।
अधिसूचनायां उक्तं यत् राज्यपालेन संविधानस्य अनुच्छेदस्य १६४ धारायाः (१) अन्तर्गतं प्राप्तशक्तीनां प्रयोगं कृत्वा डॉ॰ सर्मा असमस्य मुख्यमन्त्रिरूपेण नियुक्तः।
उल्लेखनीयं यत् विधानसभानिर्वाचने भाजपानेतृत्वयुक्तगठबन्धनस्य प्रचण्डविजयानन्तरं डॉ॰ सर्मा नवीनसरकारगठनस्य दावा प्रस्तुतवान्।
मुख्यसचिवेन डॉ॰ रविकोटा महोदयेन हस्ताक्षरिता अधिसूचना संवैधानिकप्राधिकरणेभ्यः, वरिष्ठप्रशासनिकाधिकारिभ्यः तथा सम्बद्धविभागेभ्यः आवश्यककार्यवाह्यर्थं प्रेषिता अस्ति। शपथग्रहणसमारोहस्य निमित्तं सम्पूर्णे नगरे उत्साहस्य वातावरणं दृश्यते।
हिन्दुस्थान समाचार