पैरा आर्मरेसलिंग इत्यस्य पैरालंपिकमध्ये प्रवेशमार्गःस्वच्छः , ब्रिस्बेनाय 2032 इत्यस्मै पूर्णोंऽताराष्ट्रियो मानकः
मुंबई, 11 मईमासः (हि.स.)।पीपुल्स आर्मरेसलिंग फेडरेशन इंडिया (पाफी) तथा प्रो पंजा लीग इत्येताभ्यां सोमवासरे महानन्देन उद्घोषितं यत् पैरा आर्मरेसलिंग क्रीडा ब्रिस्बेन २०३२ पैरालंपिक क्रीडासु समावेशाय अंताराष्ट्रिय पैरालंपिकसमित्या निर्धारितं वैश्विक
ब्रिस्बेन 2032 के लिए पूरा हुआ पैरा आर्मरेसलिंग अंतरराष्ट्रीय मानक


मुंबई, 11 मईमासः (हि.स.)।पीपुल्स आर्मरेसलिंग फेडरेशन इंडिया (पाफी) तथा प्रो पंजा लीग इत्येताभ्यां सोमवासरे महानन्देन उद्घोषितं यत् पैरा आर्मरेसलिंग क्रीडा ब्रिस्बेन २०३२ पैरालंपिक क्रीडासु समावेशाय अंताराष्ट्रिय पैरालंपिकसमित्या निर्धारितं वैश्विक सहभागिता-मानदण्डं सम्पूर्णतया पूरितवती अस्ति।

विश्व आर्मरेसलिंग महासंघेन अतिरिक्त-सहभागिता-सांख्यिकी समर्पिते सति अंतरराष्ट्रीय पैरालंपिक समित्या पुष्टि कृता यत् अधुना पैरा आर्मरेसलिंग क्रीडायां ३२ अधिकदेशेषु नियमितः व्यापकः च सहभागः दृश्यते। एषा सिद्धिः अस्याः क्रीडायाः भविष्ये पैरालंपिक-क्रीडासु समावेशनस्य दिशि महत्त्वपूर्णः चरणः इति मन्यते।

एषा वार्ता भारतस्य कृते अपि अत्यन्तं महत्त्वपूर्णा मन्यते, यतः देशे पैरा आर्मरेसलिंग क्रीडकानां शक्तिशालिनी शीघ्रवर्धमाना च प्रतिभा विद्यते। गतवर्षेषु पाफी तथा प्रो पंजा लीग इत्येताभ्यां पैरा-क्रीडकानां कृते व्यावसायिक-मञ्च-निर्माणदिशि निरन्तरं कार्यं कृतम्।

प्रो पंजा लीगस्य उभयोः सत्रयोः तथा देशस्य विभिन्नेषु प्रदेशेषु आयोजितेषु महा-स्पर्धासु पैरा आर्मरेसलिंग वर्गाय विशेषस्थानं प्रदत्तम्। अनेन चन्दन कुमार बेहरा, बुट्टा सिंह, श्रीनिवास बीवी, मोहन शर्मा तथा अरविंद रजक इत्यादयः बहवः प्रतिभाशालिनः क्रीडकाः राष्ट्रियस्तरे स्वप्रतिभां प्रदर्शयितुं अवसरं प्राप्तवन्तः।

प्रो पंजा लीगस्य सह-संस्थापकः परवीन डबास उक्तवान्, “एतत् केवलं वैश्विक-आर्मरेसलिंग-क्रीडायाः कृते एव न, अपितु भारतस्य कृते अपि ऐतिहासिकः क्षणः अस्ति। वयं प्रो पंजा लीग तथा देशव्यापि आयोजितेषु महा-स्पर्धासु पैरा-वर्गे अद्भुताः प्रतिभाः दृष्टवन्तः। प्रारम्भात् एव अस्माकं विश्वासः आसीत् यत् पैरा आर्मरेसलिंग समान-मान्यता-समान-अवसरौ च प्राप्नुयात्, अतः वयं प्रत्येकस्मिन् सत्रे अस्य समावेशं कृतवन्तः। यदि एषा क्रीडा ब्रिस्बेन २०३२ पैरालंपिक-क्रीडानां भागः भवति, तर्हि भारतस्य बहूनि पदकानि जेतुं सुदृढा सम्भावना भविष्यति।”

पीपुल्स आर्मरेसलिंग फेडरेशन इंडिया संस्थायाः अध्यक्षा तथा एशियाई आर्मरेसलिंग महासंघस्य उपाध्यक्षा प्रीति झंगियानी उक्तवती, “भारतं सदा एव पैरा-क्रीडा-प्रतिभानां केन्द्रं वर्तते, तथा आर्मरेसलिंग अपि तस्मात् भिन्ना नास्ति। देशस्य सर्वेभ्यः पैरा-क्रीडकेभ्यः अस्माभिः उत्कृष्टः प्रतिसादः प्राप्तः। अंताराष्ट्रिय पैरालंपिक समितेः एषा मान्यता अस्य क्रीडायाः वैश्विक-विकासं प्रदर्शयति तथा भारते पैरा-क्रीडकानां कृते अधिक-अवसर-निर्माणाय अस्मान् प्रेरयति। अस्माकं विश्वासः अस्ति यत् सम्यक् समर्थनं समुचितः मञ्चः च प्राप्ते सति भारतीय-क्रीडकाः विश्व-विजेतारः भवितुं शक्नुवन्ति।”

---------------

हिन्दुस्थान समाचार