तमिलनाडौ 17तमायाः विधानसभायाःशुभारभत प्रथमं सत्रम्
चेन्नई, 11 मईमासः (हि.स.)। तमिलनाडुविधानसभानिर्वाचनानन्तरं राज्ये नूतनसर्वकारस्य गठनं जातम्। सोमवासरे प्रातः ९:३० वादनात् सप्तदशविधानसभायाः प्रथमसत्रम् आरब्धम्। प्रोटेमस्पीकरः विधानसभासदस्यान् शपथं ग्रहीतुम् अकार्षीत्। वास्तवतः विधानसभानिर्वाचनप
17वीं विधानसभा का पहला सत्र शुरू हो गया है।


चेन्नई, 11 मईमासः (हि.स.)।

तमिलनाडुविधानसभानिर्वाचनानन्तरं राज्ये नूतनसर्वकारस्य गठनं जातम्। सोमवासरे प्रातः ९:३० वादनात् सप्तदशविधानसभायाः प्रथमसत्रम् आरब्धम्। प्रोटेमस्पीकरः विधानसभासदस्यान् शपथं ग्रहीतुम् अकार्षीत्।

वास्तवतः विधानसभानिर्वाचनपरिणामानन्तरं त्रिशङ्कुस्थितिः अभवत्। राज्ये प्रथमवारं निर्वाचनं स्पर्धित्वा १०८ आसनानि विजित्य तमिलगवेट्ट्रीकळगम् (टीवीके) इति दलं बृहत्तमदलं जातम्, किन्तु बहुमतस्य सङ्ख्यां अतिक्रान्तुं न अशकत्। अतः भारतीयराष्ट्रियकाङ्ग्रेसः, कम्युनिस्टदलानि, विदुतलाईचिरुथाइगलकच्छि (टीसीके) तथा भारतीयसङ्घमुस्लिमलीगस्य समर्थनस्य आधारेण सरकारं निर्मितम्। रविवासरे जोसेफविजय तमिलनाडुराज्यस्य मुख्यमन्त्रिरूपेण शपथं गृहीतवान्। तेन सह सेङ्गोट्टैयन्, आदवअर्जुनः, एन्. आनन्दः सहिताः नव मन्त्रिणः अपि पदशपथं गृहीतवन्तः।

तदनन्तरं सायंकाले टीवीके दलस्य नेता एमवीकरुप्पैयः विधानसभायाः अस्थायी-अध्यक्षरूपेण (प्रोटेमस्पीकररूपेण) चयनितः। राज्ये टीवीके सरकारस्य गठनानन्तरम् अद्य प्रातः प्रथमविधानसभायाः बैठक आरब्धा। प्रोटेमस्पीकरः मुख्यमन्त्री विजयः सहितं सर्वान् सदस्याञ् शपथग्रहणं कारयिष्यति। अद्यतनसत्रे अखिलभारतीयअन्नाद्रविडमुनेत्रकडगम् विधायकानां एकः समूहः एदप्पाडीकेपलनीस्वामिनः नेतृत्वे तथा अपरः समूहः एस्पीवेलुमानिनः नेतृत्वे विधानसभां प्राप्तवान्। अस्य अनन्तरम् एआईएडीएमके विधायकदलस्य नेतारं प्रति विविधाः अटकलाः प्रवर्तन्ते।

राज्यपालेन टीवीके दलाय स्वबहुमतसिद्ध्यर्थं १३ मई पर्यन्तं समयः दत्तः अस्ति। अतः अद्यतनं विधानसभासत्रं अत्यन्तं महत्त्वपूर्णं मन्यते। तथापि विधानसभाध्यक्षस्य उपाध्यक्षस्य च निर्वाचनं श्वः (१२ मई) भविष्यति। प्राप्तसूचनानुसारं मुख्यमन्त्री विजयः श्व एव सदने स्वबहुमतं सिद्धं कर्तुं शक्नोति।

---------------

हिन्दुस्थान समाचार