Enter your Email Address to subscribe to our newsletters

चेन्नई-नगरम्, ११ मईमासः (हि.स.)। अभिनेता-राजनेता जोसेफ-विजयः रविवासरे तमिलनाडु-राज्यस्य अष्टादशतम: मुख्यमन्त्रीरूपेण शपथं गृहीतवान्। सः ५१ वर्षस्य वयसि मुख्यमन्त्री-पदं प्राप्तवान् तथा च राज्यस्य न्यूनतम-वयसि मुख्यमन्त्रिणां सूच्यां पञ्चमं स्थानं प्राप्तवान्।
सः स्वस्य “तमिलग-वेट्री-काजगम्” इति दलस्य स्थापनायाः केवलं द्विवर्षाभ्यन्तरे एव सत्तां प्राप्तवान्। तमिलनाडु-राजनैतिक-इतिहासे न्यूनतम-वयसि मुख्यमन्त्री-पदं प्राप्तवती जे.जयललिता आसीत्, या ४३ वर्षस्य वयसि मुख्यमन्त्री अभवत्।
जोसेफ-विजयस्य राजनीतिक्षेत्रे शीघ्र-उत्थानं तमिलनाडु-राजनीतौ नूतन-परिवर्तनस्य संकेत-रूपेण दृष्टम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता