Enter your Email Address to subscribe to our newsletters


-श्रद्धालूनां सुरक्षा एव प्रथमा प्राथमिकता : डॉ आशीष चौहानः
देहरादूनम्, 11 मईमासः (हि.स.)।चारधामयात्रायाः समये हेलीसेवायाः उपयोगं कुर्वतां श्रद्धालूनां संख्या निरन्तरं वर्धमाना अस्ति। अस्मिन् वर्षे अधुना पर्यन्तं २१ सहस्राधिकाः श्रद्धालवः हेलीसेवया दर्शनलाभं प्राप्तवन्तः। कस्यापि कपटव्यवहारस्य निवारणार्थम् उत्तराखण्डनागरिकउड्डयनविकासप्राधिकरणेन (यूकाडा) श्रद्धालुभ्यः केवलम् अधिकृतपोर्टलस्य माध्यमेन एव टिकट् आरक्षणं कर्तुं प्रार्थना कृता अस्ति।
यूकाडायाः इण्टीग्रेटेड् कमाण्ड् एण्ड् कन्ट्रोल् एण्ड् कम्युनिकेशन् सेन्टर् (आईसीसीसीसी) चारधामयात्राकाले श्रद्धालूनां सुरक्षां हेलीसेवानां सुचारुसञ्चालनं च सुनिश्चितं करोति। देहरादूनस्थिते सहस्त्रधारा-उदग्रविमानस्थलं स्थापितं एतत् आधुनिकनियन्त्रणकेन्द्रं दुर्वृष्ट्यादिदुष्परिस्थितिष्वपि हेलीसेवानां सर्वासां क्रियाणां निरन्तरनिगराणीं करोति। यूकाडायाः अनुसारम् २२ अप्रैलतः अधुना पर्यन्तं २१ सहस्राधिकाः श्रद्धालवः उदग्रविमानसेवया चारधामयात्रां कृतवन्तः। फाटा, गुप्तकाशी तथा सिरसी इत्येतेभ्यः सञ्चालिताभिः शटल्-सेवाभिः १७,९७६ यात्रिकाः दर्शनं प्राप्तवन्तः, यदा तु १० मई पर्यन्तं चार्टर्ड्-सेवाभिः ३,९७४ श्रद्धालवः चतुर्धामदर्शनं कृतवन्तः।
आईसीसीसीसी मध्ये नियुक्ता नागरविमाननमहानिदेशालयस्य (डीजीसीए), भारतमौसमविज्ञानविभागस्य (आईएमडी) तथा यूकाडायाः षट्सदस्यीयदलम् वायव्ययातायातनियंत्रणेन सह समन्वयं स्थापयित्वा हेलीसञ्चालनं सुरक्षितं सुव्यवस्थितं च कर्तुं निरता अस्ति। केन्द्रतः हेलीमार्गाणां, ट्रैकिंग-यन्त्राणां तथा प्रत्येकस्य हेलीयात्रायाः शटल्-सेवायाश्च वास्तविककालीननिगराणी क्रियते। सर्वेषु उदग्रविमानमार्गेषु स्थापितैः पीटीजेड्-कैमेरैः हेलीकॉप्टराणां अवतरणं उड्डयनं च निरन्तरं निरीक्ष्यते, येन कस्यापि आपत्कालीनस्थितौ त्वरितकार्यम् सम्भवं भवेत्। आईसीसीसीसी माध्यमेन सम्पूर्णा हेलीयात्राव्यवस्था नियन्त्र्यते निरीक्ष्यते च।
यूकाडायाः मुख्यकार्यपालकाधिकारी डॉ. आशीषचौहान उक्तवान् यत् मुख्यमन्त्रिणः पुष्करसिंहधामीमहाभागस्य निर्देशनानुसारं चारधाम-उदग्रविमानयात्रा आधुनिकतन्त्रज्ञानस्य माध्यमेन अधिकसुरक्षिता, सरला सुव्यवस्थिता च क्रियते। तेन उक्तं यत् डीजीसीए निर्देशानुसारं सहस्त्रधारा तथा सिरसी इत्यत्र इण्टीग्रेटेड् कमाण्ड् एण्ड् कन्ट्रोल् एण्ड् कम्युनिकेशन् सेन्टर् स्थापितम् अस्ति, यत्र डीजीसीए तथा आईएमडी विभागयोः अधिकारीणः नियुक्ताः सन्ति। तेन उक्तं यत् प्रत्येकस्य हेलीउड्डयनस्य वास्तविककालीननिरीक्षणं क्रियते तथा च एयर् ट्रैफिक् कन्ट्रोल् सह समन्वयं स्थापयित्वा प्रत्येकायै शटल्-सेवायै अनुमतिः दीयते। दुर्वृष्टिः, न्यूनदृश्यता, सुरक्षास्थितिः च मनसि निधाय सर्वासु हेलीसेवासु विशेषनिगराणी क्रियते।
अधुना पर्यन्तं कपटव्यवहारस्य काचिदपि परिवादः न प्राप्तः
यूकाडा-अधिकारिणाम् अनुसारं चारधामयात्राकाले हेलीटिकट्-आरक्षणे अधुना पर्यन्तं कस्यापि प्रकारस्य वंचनासम्बद्धा शिकायत् न प्राप्ता, न च टिकटिङ्ग्-सम्बद्धः कश्चन कपटव्यवहारः अभिलेखितः। श्रद्धालवः आधिकारिकपोर्टल् heliyatra.co.in इत्यस्य माध्यमेन ऑनलाइनचिटिकायाः आरक्षणं कुर्वन्ति।
हिन्दुस्थान समाचार