Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 11 मईमासः (हि. स.)।मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना ऊर्जासंरक्षणाय, स्वदेशीस्वीकाराय, आत्मनिर्भरभारतस्य निर्माणाय च कृतम् आह्वानं केवलम् आर्थिकसुदृढतायाः सन्देशः नास्ति, अपितु राष्ट्रनिर्माणस्य व्यापकः अभियानम् अस्ति। तेन विश्वासः व्यक्तीकृतः यत् उत्तराखण्डस्य जनता एतत् आह्वानं जनान्दोलनस्य रूपं दास्यति।
मुख्यमन्त्री उक्तवान् यत् राष्ट्रियहितं सर्वोपरि स्थापयित्वा ऊर्जासंसाधनानां संरक्षणं अस्माकं सर्वेषां सामूहिकं दायित्वम् अस्ति। यदि नागरिकाः अनावश्यकविदेशयात्राभ्यः विरमन्ति, स्थानीयस्वदेशीयोत्पादानां प्राधान्यं ददति, पेट्रोलडीजलयोः उपभोगं न्यूनं कर्तुं सार्वजनिकपरिवहनस्य उपयोगं कुर्वन्ति तथा ऊर्जासंरक्षणं स्वदिनचर्यायाः अङ्गं कुर्वन्ति, तर्हि तस्मात् देशस्य अर्थव्यवस्थायाः सुदृढता भविष्यति।
तेन जनाः एकवर्षपर्यन्तं सुवर्णाभरणक्रयात् विरमितुं, कृषिक्षेत्रे रासायनिकउर्वरकाणां स्थाने प्राकृतिकखादस्य उपयोगं कर्तुं तथा खाद्यतैलस्य संयमितोपयोगं कर्तुमपि आग्रहः कृतः। मुख्यमन्त्री उक्तवान् यत् लघुलघवः संकल्पाः अपि राष्ट्रहिताय महत् योगदानं दातुं समर्थाः भवन्ति।
मुख्यमन्त्री उक्तवान् यत् देवभूमेः उत्तराखण्डस्य नागरिकाः सर्वदा राष्ट्रहितकार्येषु अग्रण्यः अभवन्। ‘वोकल्फॉरलोकल’ तथा ‘आत्मनिर्भरभारत’ इति संकल्पः तदैव सफलः भविष्यति, यदा प्रत्येकः नागरिकः स्वदायित्वं निर्वहिष्यति। तेन उक्तं यत् प्रधानमन्त्रीमोदिनः नेतृत्वे देशः आत्मनिर्भरतायाः दिशि तीव्रगत्या अग्रे गच्छति तथा जनसहभागितया एषः अभियानः अधिकं सुदृढः भविष्यति।
हिन्दुस्थान समाचार