राष्ट्रिय प्रौद्योगिकी दिवसे मुख्यमंत्री योगी अकरोत् प्रदेशवासिभ्यो पत्रलेखनम्
लखनऊ, 11 मईमासः (हि. स.)। राष्ट्रिय-प्रौद्योगिकी-दिवसस्य अवसरः उपलक्ष्य मुख्यमन्त्री योगीआदित्यनाथः प्रदेशवासिभ्यः पत्रं लिखितवान्। तेन उक्तम् यत् — “मम सम्मानित-प्रदेशवासिनः, तकनीक केवलं विकासस्य माध्यमं नास्ति, अपितु आत्मनिर्भरत्वस्य सशक्तः आधा
सीएम योगी ने लिखी पाती


लखनऊ, 11 मईमासः (हि. स.)।

राष्ट्रिय-प्रौद्योगिकी-दिवसस्य अवसरः उपलक्ष्य मुख्यमन्त्री योगीआदित्यनाथः प्रदेशवासिभ्यः पत्रं लिखितवान्। तेन उक्तम् यत् — “मम सम्मानित-प्रदेशवासिनः, तकनीक केवलं विकासस्य माध्यमं नास्ति, अपितु आत्मनिर्भरत्वस्य सशक्तः आधारः अपि अस्ति। प्रदेशसर्वकारः एतेन एव मन्त्रेण अग्रे गच्छति।”

सः अग्रे लिखति यन्मम युवा-सहचराः, तकनीक कालस्य सदृशी अस्ति। तकनीक्या सह न गच्छितुं नाम कालात् पश्चात् पतितुं भवति। तकनीकेन सह गमनस्य अर्थः सुदृढ-वर्तमानस्य स्वर्णिम-भविष्यस्य च दिशि अग्रसरणम् अस्ति। नवीनतमा तकनीक अधीयध्वम्, नवाचारं स्वीकरोत, आत्मनिर्भर-प्रदेशस्य निर्माणे सक्रिय-भागितां निर्वहत।”

मुख्यमन्त्रिणा उक्तम् यत् अद्यतनदिने पोखरण-प्रदेशे “ऑपरेशन्-शक्ति” इत्यस्य माध्यमेन विश्वाय भारतस्य वैज्ञानिक-प्रतिभायाः परिचयः प्रदर्शितः आसीत्। ११ मे तिथौ एव “हंस-३” इत्यस्य सफल-उड्डयनं सम्पन्नम्, स्वदेशी-त्रिशूल-मिसाइलस्य सफल-परीक्षणम् अपि अभवत्। तकनीक केवलं विकासस्य माध्यमं न, अपितु आत्मनिर्भरत्वस्य सशक्ताधारः अपि अस्ति।

अद्य तकनीक प्रयोगशालातः निर्गत्य कृषिक्षेत्रपर्यन्तम् अपि प्राप्तवती अस्ति। सशक्ताः युवानः प्रदेशस्य समृद्धेः आधारः सन्ति। उत्तरप्रदेशे रोबोटिक्स-एआई-मिशन इत्यस्य आरम्भः कृतः अस्ति। उत्तरप्रदेशे डाटा-सेण्टर-क्लस्टर-सम्बद्धा कार्यवाही प्रचलति। उत्तरप्रदेश-सर्वकारः “टेक-युवा-समर्थ-युवा-योजना” इत्यस्य माध्यमेन युवभ्यः आधुनिकतमं प्रशिक्षणं प्रददाति। सर्वकारस्य “इनोवेट्-इन-यूपी, स्केल्-फॉर्-द-वर्ल्ड्” इति मूलमन्त्रः अस्ति।

योगिना आदित्यनाथेन उक्तम् यत् अस्माकं सर्वकारः ड्रोन, क्वाण्टम्, ग्रीन-हाइड्रोजन, मेड-टेक इत्यादिषु क्षेत्रेषु प्रगतिं करोति। सर्वकारः उत्तरप्रदेशं देशस्य “डीप-टेक-कैपिटल्” इति रूपेण निर्मातुं प्रतिबद्धः अस्ति। उत्तरप्रदेशे ब्रह्मोस-मिसाइल् अपि निर्मीयते।

मुख्यमन्त्री योगीआदित्यनाथः युवभ्यःआह्वानं कृतवान् यत् युवानः नवीनतमां तकनीकं शिक्षन्ताम्। युवानः नवाचारं स्वीकर्वन्तु, आत्मनिर्भर-प्रदेशस्य निर्माणे सक्रिय-भागीदारीं निर्वहन्तु। पूर्वप्रधानमन्त्रिणे अटल-बिहारी-वाजपेयी इत्यस्मै एषा एव सत्या श्रद्धाञ्जलिः भविष्यति।

---------------

हिन्दुस्थान समाचार