Enter your Email Address to subscribe to our newsletters

नवदेहली, ११ मे-मासः (हि.स.)। राष्ट्रीय-प्रौद्योगिकी-दिवसस्य अवसरे उपराष्ट्रपतिः सी.पी.राधाकृष्णन्, लोकसभा-अध्यक्षः ओमबिरला, केन्द्रीय-गृहमन्त्री अमितशाहः तथा अन्ये केन्द्रीयमन्त्रिणः राज्य-मुख्यमन्त्रिणश्च देशस्य वैज्ञानिकेभ्यः, अभियन्तृभ्यः, नवप्रवर्तकेभ्यः शोधकर्तृभ्यश्च शुभकामनाः अयच्छन्।
उपराष्ट्रपतिः उक्तवान् यत् १९९८ तमे वर्षे पोखरण-परमाणु-परीक्षणेन भारतस्य वैज्ञानिक-प्रौद्योगिकी-सामर्थ्यं विश्वे प्रकाशितम्। ओमबिरला अपि उक्तवान् यत् पोखरण-द्वितीय-परमाणु-परीक्षणम् आत्मनिर्भर-शक्तिशालि-भारतस्य उदयस्य घोषणा आसीत्।
अमितशाहः अवदत् यत् नवाचार-आधारित-योजनाभिः भारतस्य विकासः त्वरितः भवति। रक्षामन्त्री राजनाथसिंहः वैज्ञानिकानां समर्पणस्य प्रशंसां कृत्वा उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदीनः नेतृत्वे भारतः प्रौद्योगिकी-नवाचार-स्वदेशी-विकास-क्षेत्रेषु नूतन-शिखराणि स्पृशति।
संसदीय-कार्यमन्त्री किरेन रिजिजू, कृषिमन्त्री शिवराजसिंहचौहानः तथा अर्जुनराममेघवालः अपि वैज्ञानिकानां योगदानस्य प्रशंसाम् अकुर्वन्।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् पोखरण-परीक्षणस्य सफलता भारतस्य सामरिक-प्रौद्योगिकी-सामर्थ्यस्य प्रतीकम् आसीत्। देहल्याः मुख्यमन्त्री-रेखागुप्ता तथा उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अपि भारतस्य वैज्ञानिक-नवाचार-क्षेत्रे प्रगतिं प्रशंसितवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता