Enter your Email Address to subscribe to our newsletters

वाराणसी, 11 मईमासः (हि. स.)।
वाराणसी-नगरे वेदशिक्षामन्दिर-नरसिंहमठ-सेवासमित्याः आयोजनेन श्रद्धेय-अशोकसिंहल-हनुमानचालीसा-पाठ-प्रतियोगितायाः समापनम् अभवत्। प्रतियोगितायां कुलतः २५ छात्राः सहभागिनः अभवन्। अस्याम् प्रतियोगितायां प्रथमवर्गे कक्षा १ तः ३ पर्यन्ते प्रथमस्थानं विनायकशर्मा, वेदशिक्षामन्दिरम्, द्वितीयस्थानं नियतिसरीन, वेदशिक्षामन्दिरम्, तृतीयस्थानम् उपासनासरीन, वेदशिक्षामन्दिरम् इत्येतेषां प्राप्तम्।
द्वितीयवर्गे कक्षा ४ तः ५ पर्यन्ते प्रथमस्थानं श्रुतिशर्मा, वेदशिक्षामन्दिरम्, द्वितीयस्थानं कृष्णाउपाध्याय, सेण्ट्रलहिन्दूस्कूल्, तृतीयस्थानं तेजसशर्मा, वनितापब्लिक्स्कूल् इत्येतेषां प्राप्तम्।
तृतीयवर्गे कक्षा ६ तः ८ पर्यन्ते प्रथमस्थानं काजलपाण्डेय, सेण्ट्एडमन्स्कॉन्वेण्ट्, द्वितीयस्थानं समर्थखन्ना, डब्लूएचस्मिथ्स्कूल्, तृतीयस्थानं पीहूपाण्डे, सेण्ट्एडमन्स्कॉन्वेण्ट् इत्येतेषां प्राप्तम्। विशेषपुरस्कारः दधिमतीगुरुकुलस्कूल्-नागौरस्य छात्राय विजयकुमारशर्मणे प्रदत्तः।
सर्वेभ्यः विजयी-प्रतिभागिभ्यः पदकानि पुरस्काराश्च प्रदत्ताः तथा सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि अपि प्रदत्तानि। प्रतियोगितायाः प्रारम्भः वैदिक-मङ्गलाचरणेन अभवत्।
प्रतियोगितायाः निर्णायकौ मानस-मण्डलस्य अध्यक्षः परशुरामउपाध्यायः समाजसेवी शिवप्रकाशगुप्तः च आस्ताम्।
प्रतियोगितायाः सञ्चालनं वेदशिक्षामन्दिरस्य उपप्रबन्धकः विकासमेहरा अकरोत् तथा धन्यवादज्ञापनं नरसिंहमठ-सेवासमित्याः संयोजकः हरिकृष्णदासगुजराती सुनीलजी च अकुरुताम्। कार्यक्रमस्य अन्ते सर्वे उपस्थितजनाः हनुमानचालीसायाः सामूहिकपाठं कृतवन्तः।
---------------
हिन्दुस्थान समाचार