मुख्यमन्त्रिणः शुभेन्दु-अधिकारिणः महती घोषणा, पश्चिमबङ्गः आयुष्मानभारत-योजनया सम्बद्धः अभवत्
कोलकातानगरम्, ११ मे-मासः (हि.स.)। पश्चिमबङ्ग-सर्वकारेण आधिकारिकरूपेण आयुष्मानभारत-योजनया सम्बद्धुं निर्णयः कृतः। सोमवासरे नवान्न-भवने आयोजितायाः राज्य-मन्त्रिमण्डलस्य प्रथम-सभायाः अनन्तरं मुख्यमन्त्री शुभेन्दु-अधिकारी पत्रकारेभ्यः एतां सूचनाम् अयच्
आयुष्मान भारत -सांकेतिक फोटो


कोलकातानगरम्, ११ मे-मासः (हि.स.)। पश्चिमबङ्ग-सर्वकारेण आधिकारिकरूपेण आयुष्मानभारत-योजनया सम्बद्धुं निर्णयः कृतः। सोमवासरे नवान्न-भवने आयोजितायाः राज्य-मन्त्रिमण्डलस्य प्रथम-सभायाः अनन्तरं मुख्यमन्त्री शुभेन्दु-अधिकारी पत्रकारेभ्यः एतां सूचनाम् अयच्छत्।

“आयुष्मानभारत” भारत-सर्वकारस्य प्रमुखा स्वास्थ्य-बीमा-योजना अस्ति, या २०१८ तमे वर्षे प्रारब्धा आसीत्। एषा सर्वकारीय-निधिना सञ्चाल्यमानासु विश्वस्य बृहत्तमासु स्वास्थ्य-योजनासु एका मन्यते। पूर्वं राज्यस्य तृणमूल-काङ्ग्रेस-सर्वकारः अस्याः योजनायाः विरोधं करोति स्म, किन्तु नवीन-विधानसभा-निर्वाचने पराजयानन्तरं नूतन-सर्वकारेण एषा योजना प्रवर्तयितुं निर्णयः कृतः। अस्याः योजनायाः मुख्योद्देश्यम् आर्थिकरूपेण निर्बलेभ्यः परिवारभ्यः उत्तम-चिकित्सार्थं प्रतिवर्षं प्रति-परिवारं पञ्च-लक्ष-रूप्यकाणां यावत् निःशुल्क-स्वास्थ्य-बीमां प्रदातुम् अस्ति।

मुख्यमन्त्री शुभेन्दु-अधिकारी अवदत् यत् स्वास्थ्य-सचिवाय तथा मुख्यमन्त्रि-कार्यालयस्य परामर्शदात्रे च केन्द्रस्य स्वास्थ्य-मन्त्रालयेन सह शीघ्रातिशीघ्रं आवश्यक-सन्धिं पूर्णीकर्तुं निर्देशाः दत्ताः सन्ति। अस्याः योजनायाः अन्तर्गतं चिकित्सायाः पूर्वं पश्चात् च व्ययः, तथा चिकित्सालयं प्रति आगमन-निर्गमन-भत्ता अपि समाविष्टा अस्ति। एतदतिरिच्य, आयुष्मानभारत-डिजिटल-अभियानस्य अन्तर्गतं आयुष्मानभारत-हेल्थ-अकाउंट् (आभा) सङ्ख्यया रोगिणां डिजिटल-स्वास्थ्य-अभिलेखाः सुरक्षितरूपेण संरक्षिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता