Enter your Email Address to subscribe to our newsletters


कोलकाता, 12 मईमासः (हि.स.)।पश्चिमबङ्गसर्वकारे नगरविकास-नगरनिकायकार्यमन्त्रालययोः सह महिला-शिशुविकासविभागस्य दायित्वं प्राप्तवत्यां मन्त्रिण्यां अग्निमित्रापाल-महोदयायां मङ्गलवासरे प्रातःकाले स्वविभागीयकार्यालयं गत्वा कार्यभारग्रहणं कृतम्। विभागस्य दायित्वग्रहणानन्तरं तया अधिकारिभिः सह प्रथमा औपचारिका बैठकापि कृता, यत्र विविधयोजनानां प्राथमिकतानां च विषये चर्चा अभवत्।
मन्त्री अग्निमित्रापाल-महोदया उक्तवती यत् तस्यै राज्यसरकारे अत्यन्तमहत्त्वपूर्णविभागानां दायित्वं प्रदत्तम् अस्ति तथा सा पूर्णनिष्ठया स्वकर्तव्यपालनं करिष्यति। तया पश्चिमबङ्गस्य मुख्यमन्त्रिणः शुभेन्द्वधिकारी-महोदयस्य प्रति कृतज्ञता प्रकटिता तथा उक्तं यत् यः विश्वासः तस्याम् स्थापितः, तं सा जनहिताय कार्यं कृत्वा सत्यं सिद्धयितुं प्रयतिष्यते।
तया उक्तं यत् नगरविकासः, नगरनिकायप्रशासनम्, महिला-शिशुकल्याणं च एते विभागाः प्रत्यक्षरूपेण सामान्यजनानां जीवनसंबद्धाः सन्ति। राज्ये नगरीयविकासस्य तीव्रगत्या संवर्धनम्, नगरसेवानां उन्नयनम् तथा महिलाशिशुकल्याणसम्बद्धयोजनानां प्रभावीरीत्या कार्यान्वयनं तस्याः प्राथमिकतासु भविष्यति।
विभागीयाधिकारिभिः सह सम्पन्नायां बैठके राज्यस्य विविधनगरनिकायानां वर्तमानस्थितिः, विकासपरियोजनानां प्रगतिः, स्वच्छता, पेयजलव्यवस्था, मार्गाः तथा नगरीयाधारसंरचनाविषये विस्तृतचर्चा कृता। तेन सह महिला-सुरक्षा, पोषणम्, बालकल्याणम् तथा सामाजिकविकाससम्बद्धयोजनानामपि समीक्षा कृता।
मन्त्री उक्तवती यत् अग्रे बह्व्यः महत्यः जिम्मेदार्यः परिस्थितयश्च सन्ति तथा सा सर्वेषाम् अधिकारिणां कर्मचारिणां च सहयोगेन जनहिताय शीघ्रतया कार्यं कर्तुम् इच्छति। तया राज्यवासिभ्यः आशीर्वादस्य सहयोगस्य च आह्वानमपि कृता।
---------------
हिन्दुस्थान समाचार