Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 12 मईमासः (हि.स.)। आकाशवाण्याः स्थापनायाः ९० वर्षपूर्त्युपलक्ष्ये आयोज्यमानानां विविधकार्यक्रमाणां श्रृंखलायां रेडियोस्य लोकप्रियतां जनजनमध्ये वर्धयितुं उद्दिश्य अद्य एका वॉक थोन यात्रायाः आयोजनं कृतम्।
आकाशवाणी जोधपुरस्य क्लस्टरप्रमुखः उपमहानिदेशकश्च राजेन्द्र नाहर उक्तवान् यत् वॉक थोन यात्रायाः आयोजनम् आकाशवाणीकेन्द्रात् मटकी चौराहापर्यन्तं कृतम्। अस्मिन् अवसरे सामान्यजनानां प्रति रेडियोस्य महत्त्वं विवेचितम्। एवं प्रकारेण १३ मई दिनाङ्के जय नारायण व्यास विश्वविद्यालयस्य बृहस्पति सभागारे एकः कार्यक्रमः आयोज्यते। “स्वरोत्सव” इति शीर्षकेन आयोज्यमाने अस्मिन् कार्यक्रमे सुगमसंगीतसन्ध्यायाः आयोजनं भविष्यति, यस्मिन् आकाशवाण्या मान्यताप्राप्तैः कलाकारैः भजनानां गजलानां च सुमधुरा प्रस्तुति प्रदास्यते।
कार्यक्रमे जोधपुरस्य सुप्रसिद्धः भजनगायकः अनूपराज पुरोहित भजनानि प्रस्तोष्यति। तेन सह राष्ट्रियस्तरे गजलगायने प्रसिद्धिं प्राप्तः आमिर हुसैन स्वस्य मधुरकण्ठेन गजलानां प्रस्तुतीं करिष्यति। तयोः सह राजन द्वारका तबलावादने तथा दीपक बोहरा वंशीवादने सङ्गतिं करिष्यतः। सायं सप्तवादनात् पञ्चदशमिनिटोत्तरकाले आरभ्यमाणायां अस्यां सुगमसंगीतसन्ध्यायां प्रवेशः आमन्त्रणपत्राधारितः भविष्यति।
हिन्दुस्थान समाचार