हिमन्त-बिस्व-शर्मणा सह पञ्च विधायकाः मन्त्रि-पदस्य शपथं ग्रहीष्यन्ति
गुवाहाटीनगरम्, १२ मईमासः (हि.स.)। असम-राज्ये हिमन्त-बिस्व-सरमा-इत्यनेन सह समग्रतः पञ्च जनाः शपथ-ग्रहणं करिष्यन्ति। एषा सूचना निवर्तमान-मुख्यमन्त्री हिमन्तेन स्वयमेव ‘एक्स’ इति सामाजिक-माध्यमे लिखित्वा प्रदत्ता। हिमन्तेन उक्तं यत् मम अत्यन्तं हर्षः
हिमन्त-बिस्व-शर्मणा सह पञ्च विधायकाः मन्त्रि-पदस्य शपथं ग्रहीष्यन्ति


गुवाहाटीनगरम्, १२ मईमासः (हि.स.)। असम-राज्ये हिमन्त-बिस्व-सरमा-इत्यनेन सह समग्रतः पञ्च जनाः शपथ-ग्रहणं करिष्यन्ति। एषा सूचना निवर्तमान-मुख्यमन्त्री हिमन्तेन स्वयमेव ‘एक्स’ इति सामाजिक-माध्यमे लिखित्वा प्रदत्ता।

हिमन्तेन उक्तं यत् मम अत्यन्तं हर्षः अस्ति यत् मम एते चत्वारः सहकारिणः प्रधानमन्त्रिणः नरेन्द्र-मोदिनः गरिमामय-उपस्थितौ मया सह मन्त्रि-पदस्य शपथं ग्रहीष्यन्ति। एते सन्ति— रामेश्वर-तेली, अतुल-बोरा, चरण-बोडो, अजन्ता-नेओग। एतेषु द्वौ भारतीय-जनता-पक्षस्य, एकः असम-गण-परिषदः तथा एकः बीपीएफ-दलस्य विधायकः अस्ति।

तेन उक्तं यत् विधायकः रञ्जीत-दासः विधानसभाध्यक्ष-पदस्य अस्माकं प्रत्याशी भविष्यति। तेन सर्वेभ्यः शुभकामनाः प्रदत्ताः। तेन उक्तं यत् वयं सर्वे मिलित्वा अधिक-सुदृढ-विकसित-समृद्ध-असम-निर्माणाय पूर्ण-निष्ठया निरन्तरं कार्यं करिष्यामः।

हिन्दुस्थान समाचार / अंशु गुप्ता