नर्सिङ्ग इति केवलं व्यवसायः न, अपितु सेवा-संवेदना-करुणानां सजीव-स्वरूपम् अस्ति - मुख्यमन्त्री डॉ.यादवः
भोपाल-नगरम्, १२ मईमासः (हि.स.)। अद्य मंगलवासरे ‘अन्ताराष्ट्रिय-नर्स-दिवसः’ आचर्यते। रोगिणां चिकित्सायां वैद्यैः औषधैः च सह नर्स-कार्यकर्त्रीणां योगदानम् अपि महत्त्वपूर्णं भवति। तासां सम्मानार्थं प्रतिवर्षं १२ मई-दिनाङ्के विश्वव्यापी-स्तरे ‘अन्ताराष
मुख्यमंत्री डॉ. यादव ने 'अंतरराष्ट्रीय नर्स दिवस' पर दी शुभकामनाएं


भोपाल-नगरम्, १२ मईमासः (हि.स.)। अद्य मंगलवासरे ‘अन्ताराष्ट्रिय-नर्स-दिवसः’ आचर्यते। रोगिणां चिकित्सायां वैद्यैः औषधैः च सह नर्स-कार्यकर्त्रीणां योगदानम् अपि महत्त्वपूर्णं भवति। तासां सम्मानार्थं प्रतिवर्षं १२ मई-दिनाङ्के विश्वव्यापी-स्तरे ‘अन्ताराष्ट्रिय-नर्स-दिवसः’ आयोज्यते। अस्य अवसरस्य उपलक्ष्ये मुख्यमन्त्रिणा डॉ.मोहन-यादवेन शुभकामनाः प्रदत्ताः।

मुख्यमन्त्रिणा डॉ.यादवेन सामाजिक-माध्यमे ‘एक्स’ इत्यत्र प्रकाशित-सन्देशे उक्तं यत् “नर्सिङ्ग् इति केवलं व्यवसायः न, अपितु सेवा, संवेदना तथा करुणायाः सजीव-स्वरूपम् अस्ति। समर्पणेन धैर्येण च सर्वासु परिस्थितिषु सेवां कुर्वद्भ्यः सर्वेभ्यः नर्स-भ्रातृ-भगिनीभ्यः ‘अन्ताराष्ट्रिय-नर्स-दिवसस्य’ हार्दिक-शुभकामनाः। भवन्तः सर्वे मानवतायाः सेवां निरन्तरं कुर्वन्तु, ईश्वरः यूष्मान् प्रति अस्य कृते अपारां शक्तिं ददातु।”

हिन्दुस्थान समाचार / अंशु गुप्ता