Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 मईमासः (हि.स.)।
दिल्लीस्य मुख्यमन्त्री रेखा गुप्ता अन्ताराष्ट्रिय-नर्स-दिवसस्य पूर्वसन्ध्यायां सोमवासरे लोकनायक जयप्रकाश (एलएनजेपी) चिकित्सालयस्य आकस्मिकनिरीक्षणं कृतवती। मुख्यमन्त्री चिकित्सालयस्य विभिन्नवार्डेषु गत्वा परिचर्याकार्यकर्तृभिः सह संवादं कृतवती तथा तेषां निःस्वार्थसेवाभावस्य प्रशंसां कृतवती। एषा सूचना मंगलवासरे एकया विज्ञप्त्या सहकृता।
निरीक्षणस्य समये मुख्यमन्त्री अत्यन्तमात्मीयभावेन परिचारिकाभिः सह संवादं कुर्वती उक्तवती यत् परिचर्या केवलं व्यवसायः न, अपितु मानवतायाः संवेदनशीलतायाश्च पराकाष्ठा अस्ति। यदि वैद्याः उपचारं कुर्वन्ति, तर्हि परिचारिकाः स्वममतया परिचर्यया च रोगिणः नवजीवनं ददति। कठिनपरिस्थितिषु भवतीनां धैर्यं सर्वेषां कृते प्रेरणास्त्रोतः अस्ति। तया चिकित्सालये कार्यरताभिः विभिन्नराज्येभ्यः — केरल, राजस्थान, पंजाब इत्यादिभ्यः — आगताभिः परिचर्याकर्मचारिणीभिः विशेषरूपेण संवादः कृतः। तया उक्तं यत् दिल्लीस्य विश्वस्तरीयस्वास्थ्यसेवानां सफलतायाः पृष्ठतः देशस्य विभिन्नभागेभ्यः आगतानां एतेषां साहसिकस्वास्थ्यकर्मिणां महत्त्वपूर्णं योगदानम् अस्ति।
मुख्यमन्त्री संवादकाले उक्तवती यत् दिल्लीसर्वकारेण सप्तविंशतिवर्षीयं दीर्घप्रतीक्षां समाप्त्य परिचर्याप्रशिक्षार्थिनां वृत्तिवेतने सप्तविंशतिगुणा अभिलेखीयवृद्धिः कृता। ताभ्यः प्रदीयमाना राशि ५०० रूप्यकात् वर्धयित्वा १३,१५० रूप्यकाणि कृता अस्ति। अस्य निर्णयस्य फलस्वरूपं १८० परिचर्याप्रशिक्षार्थिभ्यः महती राहतिः प्राप्ता। अस्यैव क्रमस्य अन्तर्गतं स्वास्थ्यसेवानां विस्तारार्थं सर्वकारेण १,३८८ परिचर्याधिकारिणः तथा ४१ पैरामेडिकल-कर्मचारिणः नियुक्तिपत्राणि अपि प्रदत्तानि। मुख्यमन्त्री तान् आश्वासितवती यत् दिल्लीसरकारः स्वास्थ्यकर्मिणां कार्यसंस्कृतेः अधिकं सुदृढीकरणाय तथा तेषामधिकाररक्षणाय पूर्णतया प्रतिबद्धा अस्ति। रोगिणां सेवायां अहोरात्रं समर्पितानां परिचर्याकर्मचारिणां सम्मानः सरकारस्य समाजस्य च उभयोः दायित्वम् अस्ति। मुख्यमन्त्री सर्वाभ्यः परिचारिकाभ्यः अन्ताराष्ट्रिय-नर्स-दिवसस्य शुभकामनाः प्रदाय तासां उज्ज्वलभविष्याय, उत्तमस्वास्थ्याय निरन्तरसेवाभावाय च तासां उत्साहवर्धनं कृतवती।
---------------
हिन्दुस्थान समाचार